शब्दकल्पद्रुमः
भर्त्तव्यं || त्रि (भृ + तव्य ।) भरणीयम् । पोषणीयम् । यथा, दायभागटीकाधृतवचनम् । “वृद्धौ च मातापितरौ साध्वी भार्य्या सुतः शिशुः । अप्यकार्य्यशतं कृत्वा भर्त्तव्या मनुरब्रवीत् ॥”