वाचस्पत्यम्
भर्तृ || पु० भृ—तृच् । १ स्वामिनि २ अधिपतौ अमरः । ३ राजनि ४ पोषके ५ धातरि च त्रि० मेदि० याजका० षष्ठ्या समासः । ६ विष्णौ पु० “सवनो भावनो भर्त्ता” विष्णु स० तस्य सत्त्वगुणेन पालनात् तथात्वम् ।
शब्दकल्पद्रुमः
भर्त्ता || [ऋ] पुं, (बिभर्त्ति पुष्णाति पालयति धारय- तीति वा । भृञ् धारणपोषणयोः + “ण्वुल् तृचौ ।” ३ । १ । १३३ । इति तृच् ।)
अधि- पतिः । (यथा, रघौ । १ । ७४ । “सोऽपश्यत् प्रणिधानेन सन्ततेः स्तम्भकारणम् । भावितात्मा भुवो भर्त्तुरथैनं प्रत्यबोधयत् ॥”)
तत्पर्य्यायः । अधिपः २ ईशः ३ नेता ४ परि- वृढः ५ अधिभूः ६ पतिः ७ इन्द्रः ८ स्वामी ९ नाथः १० आर्य्यः ११ प्रभुः १२ ईश्वरः १३ विभुः १४ ईशिता १५ इनः १६ नायकः १७ । इति हेमचन्द्रः ॥ (विष्णुः । प्रपञ्चाधिष्टान- वत्त्वेन भरणात् ॥)
धातरि पोष्टरि च त्रि । इति मेदिनी । ते, ३८ ॥ (यथा, ऋम्वेदे । १० । २२ । ३ । “भर्त्ता वज्रस्य धृष्णोः पिता पुत्त्रमिष प्रियम् ॥” विवाहितायाः पतिः । यथा, महाभारते । १ । १०४ । २८ । “भार्य्याया भरणाद्भर्त्ता पालनाच्च पतिः स्मृतः । अहं त्वां भरणं कृत्वा जात्यन्धं ससुतं तदा । नित्यकालं श्रमेणार्त्ता न भरेयं महातपः ॥”)