वाचस्पत्यम्
भर्व || हिंसायां भ्वा० पर० सक० सेट् । भर्वति अभर्वीत । भोजने निघण्टुः ।
शब्दकल्पद्रुमः
भर्व्व || हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) भर्व्वति । अन्तःस्थवान्तोऽयम् । इति दुर्गादासः ॥