वाचस्पत्यम्
भल्लाट || पु० १ शशिध्वजराजपुत्रे कल्किपु० २२ अ० । २ ब्रह्म- दत्तवंश्ये ३ नृपभेदे हरिवं०२० अ० ।
शब्दकल्पद्रुमः
भल्लाटं || क्ली शशिध्वजराजपुरम् । यथा, —
“सेनागणैः परिवृतः कल्किर्नारायणः प्रभुः । भल्लाटनगरं प्रायात् खड्गधृक् सप्तिवाहनः ॥” इति कल्किपुराणे । २२ अध्यायः ॥ (दण्डसेनस्य पुत्त्रे, पुं । यथा, हरिवंशे । २० । ३२ । “विष्वक्सेनस्य पुत्त्रोऽभूत् दण्डसेनो महीपतिः । भल्लाटो तत्कुमारोऽभूद्राधेयेन हतः पुरा ॥”)