वाचस्पत्यम्
भल्लात || पु० न० भल्लं भल्लास्त्रमिवातति स्पर्शिनम् अत—अच् । (भेला) वृक्षभेदे स्वार्थे क । तत्रैव पुंस्त्री० गौ० ङीष् । भल्ला- तक्यप्यत्र रत्नमा० । “भल्लातकं त्रिषु प्रोक्तमरुष्कोऽरुष्करो- ऽग्निकः । तथैवाग्नीमुखी भल्ली वीरवृक्षश्च शोफहृत् । भल्लातकफलं पक्वं स्वादुपाकरसं लघु । कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेदनम् । मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम् । कुष्ठार्शोग्रहणीगुल्मशोफनाह- ज्वरक्रिमीन् । तन्मज्जा मधुरो वृष्यो वृंहणो वातपित्तहा । वृन्तमायुष्करं स्वादु पित्तघ्नं केश्य- मग्निकृत् । भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः । वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् । हन्ति गुल्म- ज्वरं चित्रवह्निमान्द्यकृमिव्रणान्” भावप्र० । गुडभल्लातक- शब्दे भल्लातकीगुडपाकविधिर्दृश्यः ।
शब्दकल्पद्रुमः
भल्लातः || पुं, (भल्लं भल्लास्त्रमिव अतति आत्मानं ज्ञापयतीति । अत + अच् ।)
भल्लातकवृक्षः । इति रत्नमाला ॥ (यथा, भावप्रकाशस्य पूर्ब्ब- खण्डे प्रथमे भागे । “भल्लाताभावतश्चित्रं नलञ्चेक्षोरभावतः ॥”)