संस्कृत-शब्दकोशः

भवती भवदा

भवत्

वाचस्पत्यम्

भवत् ||‍ त्रि० भा—डवतु । १ युष्मदर्थे, सर्वनामता चास्य । भवान् भवत्याः पुत्रः भवत्पुत्रः । भू—शतृ । २ वर्त्तमानकालाथ ३ भवनकर्त्तरि च । भवन् स्त्रियामुभयत्र ङीप् शत्रन्तस्य नुम् । ङीवन्तः ४ विषाक्तबाणे शब्दरत्ना० ।


शब्दकल्पद्रुमः

भवत् || त्रि (भाति विद्यते इति । भा + डवतु- प्रत्ययः ।)
युष्मदर्थम् । अत्र भाधातोर्डवतुप्रत्य- येन निष्पन्नम् । तस्य लिङ्गत्रये रूपम् । भवान् भवती भवत् । (यथा, मार्कण्डेये देवी- माहात्म्ये । ८५ । ५ । “भवतां नाशयिष्यामि तत्क्षणात् परमापदः ॥”)
वर्त्तमानार्थम् । इति मेदिनी । ते, १३७ ॥ अत्र भूधातोः शतृप्रत्ययेन निष्पन्नम् । तस्य लिङ्गत्रये रूपं भवन् भवन्ती भवत् ॥ (यथा, मनौ । १२ । ९७ । “चातुर्व्वर्ण्यं त्रयो लोका श्चत्वारश्चाश्रमाः पृथक् । भूतं भवद्भविष्यञ्च सर्व्वं वेदात् प्रसिध्यति ॥”)



Correction: