वाचस्पत्यम्
भवदीय || त्रि० भवतोऽयम् छम् सित्त्वात् पदत्वे तस्य दः । त्वत्सम्बन्धिनि ।
शब्दकल्पद्रुमः
भवदीयं || त्रि (भवत् + “मवतष्ठक्छसौ ।” ४ । २ । ११५ । इति छस् ।)
भवत इदम् । युष्मत्- सम्बन्धि । यथा, उद्भटे । “श्रुत्वातिदूरे भवदीयकीर्त्तिं कर्णौ च तुष्टौ न च चक्षुषी मे । द्बयोर्विवादं परिहर्त्तुमिच्छन् समागतोऽहं तव दर्शनाय ॥” (यथा, भागवते । ९ । १८ । ३९ । “वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥”)