वाचस्पत्यम्
भवन || न० भ—आधारे ल्युट् । १ गृहे अमरः भावे ल्युट् । २ भावे ३ जन्मनि ४ सत्तायाञ्च मेदि० ।
शब्दकल्पद्रुमः
भवनं || क्ली (भवत्यस्मिन्निति । भू + अधिकरणे ल्युट् ।)
गृहम् । (यथा, मनौ । ११ । १८ । “स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ॥” प्रासादः । यथा, महाभारते । ३ । ५४ । १३ । “देवराजस्य भवनं विविशाते सुपूजितौ ॥” भू + भावे ल्युट् ।)
भावः । इति मेदिनी ॥ (यथा, “ननु प्रागसतो घटस्य भवनं दृश्यते ॥” इति तार्किकाः ॥)