वाचस्पत्यम्
भवन्त || पु० भू—झच् । काले उज्ज्वल० संक्षिप्तसा० ।
शब्दकल्पद्रुमः
भवन्तः || पुं, (भवत्यत्रेति । भू + “तॄभूवहिवसीति ।” उणा० ३ । १२८ । इति झच् । स च षिद्भवति ।)
कालभेदः । स तु वर्त्तमानः । इत्युणादिकोषः ॥ (भान्ति इति । भा + डवतु प्रत्ययः ।)
भव- च्छब्दस्य प्रथमाबहुवचनान्तरूपोऽप्ययम् ॥ (यथा, महाभारते । ३ । ५४ । २ । “के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः ॥”)