वाचस्पत्यम्
भवभूति || पु० ६ त० । १ महादेवविभूतौ । महावीरचरितो- त्तररामचरितमालतीमाधवादिनाटककर्त्तरि २ विद्वद्भेदे ।
शब्दकल्पद्रुमः
भवभूतिः || पुं, (भवेन शिवेन भूतिरैश्वर्य्यादिकं यस्य भव एव भूतिर्यस्येति वा । शिवोपासन- यैवास्य विद्याद्युत्पत्तेस्तथात्वम् ।)
कविविशेषः स च भोजराजस्य पण्डितः । मालतीमाध- वादिनाटककर्त्ता च । तत्पर्य्यायः । भूगर्भः २ । इति जटाधरः ॥ (यथा, राजतरङ्गिण्याम् । ४ । १४४ । “कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः ॥” भवस्य महादेवस्य भूतिरिति विग्रहे तु ।)
महादेवस्य ऐश्वर्य्यञ्च ॥