वाचस्पत्यम्
भविन || त्रि० भू—चिन्तायाम् बा० इन । काव्यस्य कर्त्तरि त्रिका०
शब्दकल्पद्रुमः
भविनः || पुं, (भवाय काव्यादिप्रकाशाय इनः सूर्य्यः इव । ततः पृषोदरादित्वात् साधुः ।) काव्य कर्त्ता । इति त्रिकाण्डशेषः ॥