वाचस्पत्यम्
भविष्य(त्) || पु० भू—“ऌटः सद्वेति” शतृ—स्यट् च पृषो० वा तलीपः । भाविनि १ काले २ तत्कालवर्त्तिनि पदार्थे त्रि० स्त्रियां ङीप् नुम् च “अव्याक्षेपो भविष्यन्त्याः” रघुः । तलोपपक्षे क्लीवता । उत्तर- पदस्थः त्रि० । “यद्भविष्यो विनश्यति” पञ्चत० ३ भवि- ष्यमधिकृत्य कृते पुराणभेदे न० । तच्च महापुराणान्त- र्गतं पुराणं तत्प्रतिपाद्यविषयादिकं नारदीयपु० ४ पा० १०० अ० उक्तं यथा “अथ ते संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम् भविष्यं भवतः सर्वलोकाभीष्टप्रदायकम् । तत्राहं सवदवाना- मादिकर्त्ता समुदातः । सृष्ट्यर्थं तत्र सञ्जातो मनुः स्वायम्भुवः पुरा । स मां प्रणम्य पप्रच्छ धर्मं सर्वार्थ- साधकम । अहं तस्मै तदा प्रीतः प्रावोचं धर्मसंहि- ताम् । पुराणानां यदा व्यासो व्यासञ्चक्रे महामतिः । तदा तां संहितां सर्वां पञ्चधा व्यभजन्मुनिः । अथो- रकल्पवृत्तान्तनानाश्चर्य्यकथाचिताम्” । तत्र प्रथम- पूर्वणि । तत्रादिमं स्मृत पर्व ब्राह्मं यत्रास्त्युप- क्रमः । सूतशौनकसंवादै पुराणप्रश्नसंक्रमः । आदित्य- चरितः प्रायः सर्वाख्यानसमाचितः । सृष्ट्यादिलक्षणी- येतः शास्त्रसर्वसरूपकः । पुस्तलेखकलेखानां लक्षणञ्च ततः परम् । संस्काराणाञ्च सर्वेषां लक्षणञ्चात्र कीर्त्तितम् । पक्षत्यादितिथीनाञ्च कल्पाः सप्त च की- र्त्तिताः । अष्टसाद्याः शेषकल्पाः वैष्णवे प्रर्वणि स्मृताः । शैवे च कामतो भिन्नाः सौरे चान्यकथाचयः । प्रति सर्गाह्वयं पश्चान्नानाख्यानसमाचितम् । पुराणस्योप- संहारसहितं षर्व पञ्चमम् । एषु पञ्चषु पूर्वस्मिन् ब्र- ह्मणो महिमाधिकः” । द्वितीयतृतीयचतुर्थपञ्चमपर्वसु “धर्मे कामे च मोक्षे तु विष्णोश्चापि शिवस्य च । द्वि- तीये च तृतीये च सौरो वर्गचतुष्टये । प्रतिसर्गा- ह्वयं त्वान्त्यं प्रोक्तं सर्वकथाचितम् । एतत् भविष्यं निर्दिष्टं पर्ब व्यासेन धीमता । चतुर्दशसहन्तु पुराणं परिकीर्त्तितम् । भविष्यं सर्वदेवानां साम्यं यत्र प्रकी- र्त्तितम् । गुणानां तारतम्येन समं ब्रह्मेति हि श्रुतिः” । तत्फलश्रुतिः । “तल्लिखित्वा तु यो दद्यात् पौष्यां विद्वान् विमत्सरः । गुडधेनुयुतं हेमवस्त्रमाल्यविभू- षणैः । वाचकं पुस्तकञ्चापि पूजयित्वा विधानतः । गन्धाद्यैर्भोज्यभक्ष्यैश्च कृत्वा नीराजनादिकम् । यो वै जितेन्द्रियो भूत्वा सोपबासः समाहितः । अथ वा यो नरो भक्त्या कीर्त्तयेच्छृणुयादपि । स मुक्तः पातकैर्घोरैः प्रयाति ब्रह्मणः पदम् । योऽप्यनुक्रमणीमेतां भविष्यस्य निरूपिताम् । पठेद्वा शृणुयाच्चैतौ मुक्तिभुक्तिञ्च विन्दतः” । ४ (चालता) फलमेदे राजनि० । तान्तं ५ जले निघण्टुः । भविष्यत्त्वञ्च वर्त्तमानप्रागभावप्रतियोगित्व- मिति नैयायिकाः पदार्थस्य अनागतावस्थाभेद इति सांख्यादयः । ४ हरिवंशपर्वभेदे न० ।
शब्दकल्पद्रुमः
भविष्यः || त्रि (भू + ऌटः सद्वेति शतृस्यट् च ततो विभाषायां पृषोदरात् तस्य लोपः ।)
भविष्यत्- कालः । इति हेमचन्द्रः ॥ (यथा, हरिवंशे । ८१ । २८ । “अयं भविष्ये कथितो भविष्यकुशलैर्द्विजैः ॥”)
पुराणविशेषे, क्ली । यथा, —
“चतुर्द्दशं भविष्यं स्यात्तथा पञ्चशतानि च ॥” इति श्रीभागवते १२ स्कन्धे १३ अः ॥ (फलविशेषे, क्ली ॥)