वाचस्पत्यम्
भवीयस् || त्रि० अतिशयेन बहुः बहु + ईयसुन् “बहोर्लोपो भूश्च वहोः” पा० भूरादेशः वेदे न ईलोपः । बहुतरे ऋ० १ । ८३ । १ लोके तु ईयसुन ईकारलोपः भूय इत्येव ।