संस्कृत-शब्दकोशः

भसत् भसन

भसद्

वाचस्पत्यम्

भसद् ||‍ न० भस—अदि । १ जघने उज्ज्वल० । २ भास्करे ३ मांसे च ४ जघने स्त्री मेदि० ५ कारण्डवखगे ६ प्लवे पु० उणादि- को० ७ काले पु० त्रिका० ।


शब्दकल्पद्रुमः

भसत् || [द्] स्त्री, (भस + अदिः ।)
भास्करः । योनिः । इति मेदिनी ॥ मांसम् । कारण्डव- पक्षी । प्लवः । इत्युणादिकोषः ॥ कालः । इति त्रिकाण्डशेषः ॥



Correction: