वाचस्पत्यम्
भसन्धि || पु० ६ त० । नक्षत्रभेदानां सन्ध्यात्मके कालभेदे यथोक्तम् “सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादाः भसन्धयः । तद- ग्रभेष्वाद्यपादो गण्डान्तं नाम कीर्त्त्यते” सू० सि० । अश्लेषाज्येष्ठारेवतीनक्षत्राणामन्त्याश्चतुर्थाश्चरणाः नक्षत्र सन्धयो भवन्ति । तदग्रभेषु तेषामश्लेषाज्येष्ठारेवतीनक्ष- त्राणामुत्तरेषु मथामूलाश्विनीनक्षत्रेष्वित्यर्थः प्रथमचरणो गण्डान्तं नाम प्रसिद्धमुच्यते । यद्यप्यश्लेषाज्येष्ठारेवती- नक्षत्राणामन्तिमं घटिकाद्वयं मघामूलाश्विनीनक्षत्राणा- मादिमं घटिकाद्वयमिति चतस्रोऽन्तरघटिका गण्डान्तम् । एतदतिरिक्तो नक्षत्रसन्धिः पूर्वनक्षत्रान्तघटिकोत्तरनक्षत्रा- दिमघटिकेत्यन्तरालघटिकाद्वयं चन्द्रमण्डलसम्बन्धेन घ- टिकाः सार्द्धद्वयमिति संहिताविरुद्धं तथापि सूर्य्योक्तस्य स्वतः प्रामाण्यान्न क्षतिः । अथविअकवाक्यतार्थं पादशब्दः करमेत्रादिवद् द्विसङ्ख्यावाचकः । घटिका इत्यध्या- हारश्च । तथा च द्विसङ्क्यामिता अन्त्यघटिकानक्षत्र- सन्धिः” रङ्ग० । २ नक्षत्रयोः सन्धिकाले च तदानयनं सि० शि० दर्शितं तच्च तिथिसन्धिशब्दे ३३०० पृ० दर्शितम् ।