संस्कृत-शब्दकोशः

भस्त्रका भस्त्राका

भस्त्रा

वाचस्पत्यम्

भस्त्रा ||‍ स्त्री भस—ष्ट्रन् । १ चर्मप्रसेविकायाम् अग्निसन्धुक्षणे चर्मनिर्मिते यन्त्रभेदे । (याँता) अमरः । षित्त्वात् ङीष् । अत्रैव शब्दरत्ना० स्वार्थे क टाप न इत्त्वम् । भस्त्रा- काप्यत्रैव । ततः उत्करा० चतुरर्थ्यां छ । भस्त्रीय तद- दूरदेशादौ त्रि० ।


शब्दकल्पद्रुमः

भस्त्रा || स्त्री (भस्यतेऽनयेति । भस + “हुयमाश्रू- भसिभ्यस्त्रन् ।” उणा० ४ । १६७ । इति त्रन् अजादित्वात् टाप् ।)
अग्निदीपकचर्म्मनिर्म्मित- यन्त्रविशेषः । भाथी इति याँता इति च भाषा । तत्पर्य्यायः । चर्म्मप्रसेविका २ । इत्य- मरः । २ । १० । ३३ ॥ चर्म्मप्रसेवकः ३ । इति भरतः ॥ भस्त्राका ४ भस्त्रका ५ भस्त्री ६ । इति शब्द- रत्नावली ॥ भस्त्रिका ७ । इति व्याकरणम् ॥ (यथा, भागवते । ९ । २० । २१ । “माता भस्त्रा पितुः पुत्त्रो येन जातः स एव सः । भरस्व पुत्त्रं दुष्मन्त ! मावमंस्थाः शकुन्तलाम् ॥”)



Correction: