भस्मकार
भस्मगन्धा
भस्मकूट
वाचस्पत्यम्
भस्मकूट || पु० भस्मरूपे पर्वतभेदे कालि० ८१९० ।
शब्दकल्पद्रुमः
भस्मकूटः || पुं, कामरूपस्थपर्व्वतभेदः । यथा, —
“नन्दनात पूर्ब्बभागे तु भस्मकूटो महागिरिः । यत्र तिष्ठति भूतेशो महादेवो वृषध्वजः ॥” इति कालिकापुराणे ८१ अध्यायः ॥