शब्दकल्पद्रुमः
भस्मगर्भा || स्त्री (भस्म गर्भेऽस्या इति । टाप् ।)
कपिलशिंशपा । इत्यमरः । २ । ४ । ६३ ॥ (अस्याः पर्य्यायो यथा, भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे । “शिं शपा पिच्छिला श्यामा कृष्णसारा च सा गुरुः । कपिला सैव मुनिभिभस्मगर्भति कीर्त्तिता ॥”)
रेणुकानामगन्धद्रव्यम् । इति जटाधरः ॥