वाचस्पत्यम्
भाकुट || पु० भया दीप्त्या कुटति कुट—क । (भेट्की) मत्स्यभेदे राजव० ।
शब्दकल्पद्रुमः
भाकुटः || पुं, (भया दीप्त्या कुटतीति । कुट + क ।)
मत्स्यविशेषः । भेक्टी इति भाषा ॥ अस्य गुणाः । मधुरत्वम् । शीतत्वम् । वृष्यत्वम् श्लेष्मकारित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥