वाचस्पत्यम्
भाक्त || त्रि० भक्तेः गौण्यावृत्तेरागतः अण् । १ औपचारिके गौण्या वृत्त्या बोधितेऽर्थे । भक्तस्यान्नस्येदम् अण् । २ अन्न- सम्बन्धिनि त्रि० । भक्तमन्नमस्मै नियतं दीयते वा अण् । ३ नियतभक्तदानसम्प्रदाने त्रि० । भक्ताय हितम् अण् । ४ भक्तसम्पादनसाधने तण्डुले ।
शब्दकल्पद्रुमः
भाक्तं || त्रि (भक्तेः गौण्यावृत्तेरागतमिति । भक्ति + अण् ।)
पारिभाषिकम् । गौणम् । लाक्ष- णिकम् । औपचारिकम् । यथा । “नन्वेवं परत्र सप्तमे मासि क्रियमाणस्य कथं षाण्मासिकत्वम् । इति चेद्भाक्तम् ।” इति तिथ्यादितत्त्वम् ॥ (भक्त- स्येदमिति तस्येदमित्यण् ।)
भक्तसम्बन्धिनि च ॥ (भक्तमस्मै दीयते नियुक्तमिति । भक्त + “भक्ता- दणन्यतरस्याम् ।” ४ । ४ । ६८ । इत्यण् । अन्नेन पोष्ये च ॥)