संस्कृत-शब्दकोशः

भागवृत्ति भागासिद्धि

भागहार

वाचस्पत्यम्

भागहार ||‍ पु० भागस्य हारो हरणम् । लीलावत्युक्ते अङ्कपरिकर्माष्टकमध्ये भागहरणरूपे व्यापारभेदे “भागहारे करणसूत्रं वृत्तम् । भाज्याद्धरः शुध्यति यद्गुणः स्यादन्त्यात् फलं तत् खलु भागहारे । समेन केनाप्यपवर्त्त्य हारभाज्यौ भजेद्वा सति सम्भवे तु” । अत्र पूर्वोदाहरणे गुणिताङ्कानां स्वगुणच्छेदानां भागहारार्थं न्यासः भाज्यः । १६२० । भाजकः १२ । भजनाल्लब्धो गुण्यः १३५ । अथवा भाज्यहारौ त्रिभिरपवर्त्तितौ ५४० चतुर्भिर्वा ४०५ स्वस्वहारेण हृते कलं तदेव १३५ ।



Correction: