संस्कृत-शब्दकोशः

भागीयस् भागुरि

भागीरथी

वाचस्पत्यम्

भागीरथी ||‍ स्त्री भागीरथेन सानीता तेन भागीरथी स्मृतां ब्रह्मव० प्र० रव० उक्ते गङ्गारूपे नदीभेदे ।


शब्दकल्पद्रुमः

भागीरथी || स्त्री (भगीरस्येयम् । भगीरथ + अण् । ङीप् ।)
गङ्गा । इत्यमरः । १ । १० । ३१ ॥ पृथिव्यां तस्यावतरणम् । यथा, — सूत उवाच । “ततो भगीरथो राजा तपः परमदुश्चरम् । कृत्वा सन्तोषयामास उमाकान्तं महेश्वरम् ॥ धारणायानुमत्वा तं जगाम ब्रह्मणोऽन्तिकम् । ततो भगीरथः प्राह गङ्गा ब्रह्मन् ! विसृज्यताम् ॥ स तच्छ्रुत्वा वचस्तस्य सम्मान्य विबुधप्रियम् । गङ्गां प्रस्थापयामास सापतद्ब्रह्मणोऽन्तिकात् ॥ वायुना प्रेर्य्यमाणापि आकाशपथगा नदी । विख्याताकाशगङ्गेति तत्र संसेविता गजैः ॥ विष्णोः पदं समायाता तस्माद्विष्णुपदीति सा । पूज्यमाना सुरैः सिद्धैर्मुनिविद्याधरोरगैः ॥ सुरालयमनुप्राप्ता तस्माद्देवनदी तु सा । तस्मात् प्रपतिता गङ्गा शम्भोः शिरसि संस्थिता ॥ धृतैकेनैव तेनापि शम्भुना योगमायया । दिव्यं वर्षशतं साग्रं पुनराराधितेन वै ॥ मुक्ता भगीरथेनैव मलहन्त्री विनिर्गता । जटाजूटात् पपातोर्द्धे मेरोस्तस्मात्ततोऽगमत् ॥ देवैः परिवृता गङ्गा हेमकूटञ्च पर्व्वतम् । मन्दरञ्चैव कैलासं हिमवन्तञ्च पर्व्वतम् ॥ तामायान्तीं तु रोधाय स्वलीनो नाम दानवः । पार्व्वतं रूपमास्थाय वर्षाणान्तु शतैर्द्विजाः ॥ ततो भगीरथो राजाराधयामास कौशिकम् । स तुष्टः प्रददौ नागं वाहनं वै भगीरथः ॥ तमारुह्यागमत्तत्र यत्र रुद्धा भगीरथी । तेन नागेन तं दैत्यं संविदार्य्य न सङ्गतः ॥ शतधा तां समाधाय मूर्द्धन्यैरावणो गजः । महीतलं समापेदे स यावन्नागसाह्वयम् ॥ तस्माद्व्याघटनाद्विप्रा अभून्नागपुरं वरम् । प्लावयन्ती महीं गङ्गा जह्नोराश्रममभ्यगात् ॥ तां दृष्ट्वाथ पपौ सोऽपि प्रसृत्या कुपितो मुनिः । जह्रुना नाशितां दृष्ट्वा गङ्गां त्रिपथगां नदीम् ॥ सशोकस्तोषयामास जह्नुं भगीरथो मुनिम् । मुमोच कर्णरन्ध्रेण गङ्गा स दक्षिणेन ताम् ॥ एतस्माज्जाह्रवी भूता सुता तस्य मुनेस्तथा । ततः सा विविधान् देशान् पर्व्वतांश्च तथा- श्रमान् ॥ संप्लाव्य वारिणा भूयो जगाम पूर्ब्बसागरम् ॥ यत्र तत्रोदकं तस्थौ तस्याः पुण्यमभूद्द्विजाः । सुतीर्थं सर्व्वमर्त्यानां तारणं पापनाशनम् ॥ ततः सम्पूरयामास समुद्रं सर्व्वतो दिशम् । प्रपन्नं सागरैः सर्व्वं ततः पातालमाविशत् ॥ सागराणां तनोस्तस्मात् संप्लाव्य वारिणा ततः । देवैः संपूज्यमानापि जगाम ब्रह्मणोऽन्तिकम् ॥ जग्मुस्ते सागराः स्वर्गं ब्रह्मणोपहताश्च ये । रक्षकास्ते विनिर्द्दिष्टा गङ्गाया ब्रह्मणा स्वयम् ॥ भवद्भिरनिशं नॄणां कर्त्तव्यं विघ्ननाशनम् ॥ सूत उवाच । एतद्बः कथितं सर्व्वं यथावतरणं दिवः । गङ्गायाश्चैव माहात्म्यं श्रूयतां गदतो मम ॥” इत्याद्ये वह्निपुराणे गङ्गावतरणनामाध्यायः ॥ तस्या मुख्यनामानि यथा, — वराह उवाच । “धर्म्मस्तु द्रवरूपेण ब्रह्मणा निर्म्मितः पुरा । यद्वै गङ्गेति विख्याता शृणु स्तोत्रं वसुन्धरे ! ॥ किन्तैर्नामसहस्रैस्तु मुख्यामुख्यैः सुविस्तरैः । यानि नामानि मुख्यानि तानि वक्ष्याम्यनुक्रमात् ॥ गङ्गा भागीरथी पुण्या जाह्रवी सुरनिम्नगा । विष्णुपादाब्जसम्भूता शम्भोः शिरसि संस्थिता ॥ सुमेरुशृङ्गसंस्पृष्टा हिमाचलंकृताश्रया । शङ्खकुन्देन्दुधवला महापातकनाशिनी ॥ नदीश्वरी त्रिपथगा वैष्णवी सुरसुप्रिया । धर्म्मद्रवी भोगवती बिन्ध्यपाषाणदारिणी ॥ क्षमा शान्तिः प्रजाशान्तिः पुण्यदा पूतिका शिवा । महानदी शतमुखी शुक्ला मकरवाहिनी ॥ ब्रह्महस्तात् परिभ्रष्टा सौम्यरूपातिशोभना । मुनिभिः पूजिता सर्व्वैः सर्व्वैर्देवैर्नमस्कृता ॥ महायज्ञमयी देवी मर्त्यानामुपकारिणी । सर्व्वत्र दुर्लभा गङ्गा त्रिभिः स्थानैर्विशेषतः ॥ गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ इदं स्तोत्रं मया ख्यातं पूर्ब्बमुक्तं स्वयम्भुवा । यः पठेत् प्रातरुत्थाय तस्य नश्यति दुर्गतिः ॥ यत् पापं यौवने बाल्ये कौमारे वार्द्धके च यत् । तत् सर्व्वं विलयं याति तोयस्थं लवणं यथा ॥ कीर्त्तिं प्रीतिं महालक्ष्मीमायुरारोग्यसन्ततिम् । ददाति जाह्रवी तुष्टा सर्व्वभावेन माधवि ! ॥” इति वाराहे सर्व्वपापप्रशमनगङ्गास्तवः ॥ अपि च । ब्रह्मोवाच । “श्रोतुमिच्छामि देवेश ! लक्ष्मीकान्त ! जगत् प्रभो ! । विष्णो ! विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारणम् ॥ श्रीनारायण उवाच । शिवसंगीतसंमुग्ध श्रीकृष्णाङ्गद्रवोद्भवाम् । राधाङ्गद्रवसंयुक्तां तां गङ्गां प्रणमाम्यहम् ॥ या जन्मसृष्टेरादौ च गोलोके रासमण्डले । सन्निधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ॥ गोपैर्गोपीभिराकीर्णैः शुभे राधामहोत्सवे । कार्त्तिकीपूर्णिमाजातां तां गङ्गां प्रणमाम्यहम् ॥ कोटियोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः । समावृता या गोलोकं तां गङ्गां प्रणमाम्यहम् ॥ षष्टिलक्षयोजनां या ततो दैर्घ्ये चतुर्गुणा । समावृता या वैकुण्ठं तां गङ्गां प्रणमाम्यहम् ॥ विंशलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा । आवृता ब्रह्मलोकं या तां गङ्गां प्रणमाम्यहम् ॥ त्रिंशल्लक्षयोजना या दैर्घ्ये पञ्चगुणा ततः । आवृता शिवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः । आवृता ध्रुवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ लक्षयोजनविस्तीर्णा दैर्घ्ये शतगुणा ततः । आवृता चन्द्रलोकं या तां गङ्गां प्रणमाम्यहम् ॥ षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः । आवृता सूर्य्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ लक्षयोजनविस्तीर्णा दैर्घ्ये च षड्गुणा ततः । आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ दशलक्षयोजना या दैर्घ्ये पञ्चगुणा ततः । आवृता या तपोलोकं तां गङ्गां प्रणमाम्यहम् ॥ सहस्रयोजनायामा दैर्घ्ये दशगुणा ततः । आवृता जनलोकं या तां गङ्गां प्रणमाम्यहम् ॥ सहस्रयोजनायामा दैर्घ्ये सप्तगुणा ततः । आवृता या च कैलासं तां गङ्गां प्रणमाम्यहम् ॥ शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः । मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम् ॥ पाताले या भोगवती विस्तीर्णदशयोजना । ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम् ॥ क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् । क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ॥ सत्ये या क्षीरवर्णा च त्रेतायामिन्दुसन्निभा । द्वापरे चन्दनाभा च तां गङ्गां प्रणमाम्यहम् ॥ जलप्रभा कलौ या च नान्यत्र पृथिवीतले । स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ॥ यस्याः प्रभावमतुलं पुराणे च श्रुतौ श्रुतम् । या पुण्यदा पापहर्त्री तां गङ्गां प्रणमाम्यहम् ॥ यत्तोयकणिकास्पर्शः पापिनाञ्च पितामह ! । ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ इत्येवं कथितं ब्रह्मन् ! गङ्गापद्यैकविंशतिः । स्तोत्ररूपञ्च परमं पापघ्नं पुण्यकारकम् ॥ नित्यं यो हि पठेद्भक्त्या संपूज्य च सुरेश्वरीम् । अश्वमेधफलं नित्यं लभते नात्र संशयः ॥ अपुत्त्रो लभते पुत्त्रं भार्य्याहीनो लभेत् प्रियाम् । रोगात् प्रमुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ अस्पष्टकीर्त्तिः सुयशा मूर्खो भवति पण्डितः ॥ यः पठेत् प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥ शुभं भवेत्तु दुःस्वप्नं गङ्गास्नानफलं लभेत् ॥” इति गङ्गास्तोत्रम् ॥ नारायण उवाच । “भगीरथोऽनेन स्तोत्रेण स्तुत्वा गङ्गाञ्च नारद ! । जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः । वैकुण्ठं ते ययुस्तृर्णं गङ्गायाः स्पर्शवायुना ॥ भगीरथेन सानीता तेन भागीरथी स्मृता । इत्येवं कथितं सर्व्वं गङ्गोपाख्यानमुत्तमम् ॥ पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे गङ्गोपाख्याने ८ अः ॥



Correction: