वाचस्पत्यम्
भाङ्गीन || न० भङ्गायाः विजयायाः भवनं क्षेत्रं खञ् । (भाङ) भङ्गाभवनयोग्ये क्षेत्रे । खञ् । भाङ्ग्यमप्यत्र । हेमच ।
शब्दकल्पद्रुमः
भाङ्गीनं || त्रि (भङ्गाया भवनं क्षेत्रमिति । “विभाषा तिलमाषोमाभङ्गाणुभ्यः ।” ५ । २ । ४ । इति पक्षे खञ् ।)
भङ्गाक्षेत्रम् । तत्पर्य्यायः । भाङ्ग्यम् २ । इत्यमरहेमचन्द्रौ ॥ (यथा, शब्दरत्नावल्याम् । “एवं माष्यन्तु माषीणं कौद्रव्यं कोद्रवीणवत् । तथा भाङ्ग्यञ्च भाङ्गीनमुम्यमौमीनमित्यपि ॥”)