वाचस्पत्यम्
भाज || पृथक्करणे, अद० चु० उभ० सक० सेट् । भाजयति ते अवभाजत् त ।
शब्दकल्पद्रुमः
भाज || त् क पृथक्कृत्याम् । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।) अवभाजत् धनं भ्रातृवर्गः । इति दुर्गादासः ॥