संस्कृत-शब्दकोशः

भाजक भाजित

भाजन

वाचस्पत्यम्

भाजन ||‍ न० भज्यतेऽनेन भाज—ल्युट् । १ पात्रे अमरः । २ आ- थारे ३ योग्ये च मेदि० । ४ आढकपरिमाणभेदे वैद्यकम् ।


शब्दकल्पद्रुमः

भाजनं || क्ली (भाज्यते इति । भाज पृथक्करणे + ल्युट् ।)
पात्रम् । इत्यमरः । २ । ९ । ३३ ॥ (यथा, महाभारते । १३ । १११ । १०२ । “राजतं भाजनं हृत्वा कपोतः संप्रजायते ॥”)
योग्यम् । इति मेदिनी । ने, १०१ ॥ (यथा, कथासरित्सागरे । ३४ । २०५ । “तस्माज्जितात्मा राजा स्याद्युक्तदण्डो विशेष- वित् । प्रजानुरागादेवं हि स भवेद्भाजनं श्रियः ॥”)
“यः संवादयते नित्यं योऽभिवादांस्तितिक्षति । यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥” इति मत्स्यपुराणम् ॥ आढकपरिमाणम् । इति वैद्यकपरिभाषा ॥



Correction: