संस्कृत-शब्दकोशः

भाज्य भाण

भाटक

वाचस्पत्यम्

भाटक ||‍ पु० न० भट—पोषणे ण्वुल् । परगृहयानादेरुपभोगार्थं तत्स्वामिने दीयमाने घने । (भाडा) हला० । “परभूमौ गृहं कृत्वा भाटयित्वा वसेत् तु यः । स तद् गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम् । स्तोमं विना व- सित्वा तु परभूमावनिच्छतः । निर्गच्छंस्तृणकाष्ठानि न गृह्णीयात् कथञ्चन” कात्यायनः । “गृहवाप्यापणा- दीनि गृहीत्वा भाटकेन यः । स्वामिनोनार्पयेद्यावत्ता- वद्दाप्यः स भाटकम् । वापी परकृता अप्रतिष्ठितेति विव- क्षितम् । “हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः । स्वामिनोनार्पयेद्यावत्तावद्दाप्यः स भाटकम्” । वृद्धमनुः “यो भाटयित्वा शकटं नीत्या नान्यत्र गच्छति । भाटं न दद्याद्दाप्योऽसावनूढस्यापि भाटकम्” । शकटं वृषनौकादेरप्युपलक्षणम् । अनूढस्यावाहितस्यापि शक- दादेः” इति विषादचिन्तामणिः ।


शब्दकल्पद्रुमः

भाटकः || पुं, क्ली, (भटतीति । भट पोषणे + ण्वुल् ।)
व्यवहारार्थं दत्तशकटादिलभ्यधनम् । इति हलायुधः ॥ भाडा इति माषा ॥ अथ गृहादि- भाटकम् । “परभूमौ गृहं कृत्वा भाटयित्वा वसेत्तु यः । स तद्गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम् ॥ स्तोमं विना वसित्वा तु परभूमावनिच्छतः । निर्गच्छंस्तृणकाष्ठानि न गृह्णीयात् कथञ्चन ॥” कात्यायनः । “गृहवाप्यापणादीनि गृहीत्वा भाटकेन यः । स्वामिनो नार्पयेद्यावत्तावद्दाप्यः स भाटकम् ॥” वापी परकृता प्रतिष्ठितेति विवक्षितम् । “हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः ॥ स्वामिनो नार्पयेद्यावत् तावद्दाप्यः स भाट- कम् ॥” वृद्धमनुः । “यो भाटयित्वा शकटं नीत्वा नान्यत्र गच्छति । भाटं न दद्याद्दाप्योऽसावनूढस्यापि भाटकम् ॥” शकटं वृषनौकादेरप्युपलक्षणम् । अनूढस्या- वाहितस्यापि शकटादेः । इति विवादचिन्ता- मणिः ॥



Correction: