वाचस्पत्यम्
भाण || पु० सा० द० उक्तलक्षणे दशरूपकान्तर्गते दृश्यकाव्यभेदे तल्लक्षणं यथा “भाणः स्याद्धूर्त्तचरितो नानावस्थान्तरात्मकः । एकाङ्क एक एवात्र निपुणः पण्डितो विटः । रङ्गे प्रकाशयेत् स्वेनानूभूतमितरेण वा । सम्बोधनोक्तिप्रत्युक्ती कुर्य्या- दाकाशभाषितैः । सूचयेद्वीरशृङ्गारौ शौर्य्यसौभाग्य वर्णनैः । तत्रेतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारती । मुखनिर्वहणे सन्धी लास्याङ्गानि दशापि च” । अत्रा- काशभाषितरूपं परवचनमपि स्वयमेवानुवदन्नुत्तर- प्रत्युत्तरे कुर्य्यात् । शृङ्गारवीररसौ च सौभाग्यशौर्य्य- वर्णनेन सूचयेत् । प्रायग्रहणात् कौशिक्यपि वृत्ति- र्भवति । उदाहरणं लीलामधुकरः” सा० द० ।
शब्दकल्पद्रुमः
भाणः || पुं, (भण्यतेऽत्रेति । भण + अधिकरणे घञ् ।)
नाटकादिदशरूपकान्तर्गतरूपक- विशेषः । इति हेमचन्द्रः । २ । १९८ ॥ तस्य लक्षणादि यथा, —
“भाणः स्याद्धूर्त्तचरितो नानावस्थान्तरात्मकः । एकाङ्क एक एवात्र निपुणः पण्डितो विटः ॥ रङ्गे प्रकाशयेत् स्वेनानुभूतमितरेण वा । सम्बोधनोक्तिप्रत्युक्ती कुर्य्यादाकाशभाषितैः ॥ सूचयेद्वीरशृङ्गारौ शौर्य्यसौभाम्यवर्णनैः । तत्रेतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारती ॥ मुखनिर्व्वहणे सन्धी लास्याङ्गानि दशापि च ॥ अत्राकाशभाषितरूपं परवचनमपि स्वयमेवा- नुवदन्नुत्तरप्रत्युत्तरे कुर्य्यात् । शृङ्गारवीररसौ च सौभाग्यशौर्य्यवर्णया सूचयेत् । प्रायग्रहणात् कौशिक्यपि वृत्तिर्भवति । उदाहरणं लीला- मधुकरः ।” इति साहित्यदर्पणे ६ परिच्छेदः ॥