वाचस्पत्यम्
भाण्डारिन् || पु० भाण्डमृच्छति ऋ—णिनि । अन्नादिद्रव्य- गृहेषु कृताधिकारे । “क्षुधितस्तृषितः कामी विद्याथी कृषिकारकः । भाण्डारी च प्रवासी च सप्त सुप्तान् प्रबोधयेत्” इति व्यवहारप्रदीपः ।
शब्दकल्पद्रुमः
भाण्डारी || [न्] पुं, (भाण्डारोऽधिकारित्वेना- स्त्यस्येति । भाण्डार + इनिः ।)
भाण्डाराध्यक्षः । भाँडारी इति भाषा । यथा, व्यवहारप्रदीपे । “क्षुधितस्तृषितः कामी विद्यार्थी कृषिकारकः । भाण्डारी च प्रवासी च सप्त सुप्तान् प्रबोधयेत् ॥