शब्दकल्पद्रुमः
भाण्डिलः || पुं, (भण्डते परिहसतीवेति भाषते इवेति वा । भडि + “सलिकल्यनिमहिभडि भण्डीति ।” उणा० १ । ५५ । इति इलच् ।)
शिरीषवृक्षः । इत्यमरः । २ । ४ । ६३ ॥ (तत्पर्य्यायो यथा, —
“शिरीषो भण्डिलो भण्डी भण्डीरश्च कपीतनः । शुकपुष्पः शुकतरुर्मृदुपुष्पः शुकप्रियः ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शब्दकल्पद्रुमः
भाण्डिलः || पुं, (भाण्डिरस्त्यस्येति । भाण्डि + लच् ।)
नापितः । इति शब्दमाला ॥