संस्कृत-शब्दकोशः

भाण्डिवाह भात

भाण्डीर

वाचस्पत्यम्

भाण्डीर ||‍ पु० भण्ड—ईरच् पृषो० । १ वटवृक्षे २ वृन्दावनस्थे ३ वटवनभेदे च जटा० । “प्रलम्बो नाम भूत्वाथो वटं भाण्डीरमाश्रितः” हरिवं० ५५ अ० ।


शब्दकल्पद्रुमः

भाण्डीरः || पुं, (भण्ड + ईरच् । पृषोदरादित्वात् साधुः ।)
वटवृक्षः । इति जटाधरः ॥ व्रज- मण्डलान्तरे षोडशवटवनमध्ये द्वितीयवटवनम् । यथा, —
“सङ्केतवटमादौ तु भाण्डीराख्यं वटं द्बयम् ॥” इति नारायणभट्टकृतव्रजभक्तिविलासः ॥



Correction: