वाचस्पत्यम्
भानु || पु० भा—नु । १ सूर्य्ये २ अर्कवृक्षे ३ किरणे ४ राजनि च अमरः ५ प्रभो धरणिः । ६ भूतजैनभेदे हेमच० । उत्तममुन्वन्तरे ७ देवे ब० व० हरिवं० ९ अ० । ९ धर्मपत्नीभेदे स्त्री हरिवं० ३ अ० । १० गन्धर्वभेदे पु० भा० आ० ६५ अ० । ११ यदुवंश्यक्षत्रियभेदे भानुमत्याः पितरि पु० हरिवं० १४९ अ० । १२ विष्णौ पु० “अनृतांशूद्भवो भानुः” विष्णुस० “तमेव भान्तमनुभाति सर्वम्” श्रुतेस्तस्य तथात्वम् ।
शब्दकल्पद्रुमः
भानुः || पुं, (भाति चतुर्द्दशभुवनेषु स्वप्रभया दीप्यते इति । भा + “दाभाभ्यां नुः ।” उणा० १ । ३२ । इति नुः ।)
सूर्य्यः । (यथा, महा- भारते । ३ । ३ । २४ । “अनन्तः कपिलो भानुः कामदः सर्व्वतोमुखः ॥” विष्णुः । यथा, तत्रैव । १३ । १४९ । २७ । “सर्व्वगः सर्व्वविद्भानुर्विष्वक्सेनो जनार्द्दनः ॥” प्राधायाः पुत्त्रभेदः । यथा, तत्रैव । १ । ६५ । ४८ । “विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा । इत्येता देवगन्धर्व्वा प्राधायाः परिकीर्त्तिताः ॥” अङ्गिरःसृष्टस्तपसः पुत्त्रभेदः । यथा, तत्रैव । ३ । २२० । ८ । “तपसश्च मनुं पुत्त्रं भानुञ्चाप्यङ्गिराः सृजत् ॥” यादवविशेषः । यथा, हरिवंशे । १४७ । २ । “कन्यां भानुमतीं नाम भानोर्दुहितरं नृप ! । जहारात्मवधाकाङ्क्षी निकुम्भो नाम दानवः ॥”)
किरणः । (यथा, ऋग्वेदे । ६ । ६४ । २ । “भद्राददृक्षौविया विभास्युत्ते शोचिर्भानवो द्यामपप्तन् ॥” “भानवो रश्मयः ।” इति तद्भाष्ये सायनः ॥)
अर्कवृक्षः । इत्यमरः । २ । ४ । ३३ ॥ प्रभुः । राजा । इति धरणिः ॥ वृत्तार्हत्पितृविशेषः । इति हेमचन्द्रः । २ । १४ ॥
शब्दकल्पद्रुमः
भानुः || स्त्री (भातीति । भा + नुः)
भातुमती । इति शब्दरत्नावली ॥ (दक्षकन्याभेदः । यथा, मत्स्यपुराणे । ५ । १५ । “शृणुध्वं देवमातॄणां प्रजाविस्तरमादितः । मरुत्वती वसुर्यामी लम्बा भानुररुन्धती ॥”)