वाचस्पत्यम्
भानुमती || स्त्री भानोर्यादवनृपभदस्य कन्यायां हरिवं० १४९ अ० ।
शब्दकल्पद्रुमः
भानुमती || स्त्री (भानु + मतुप् + ङीप् ।)
विक्र- मादित्यराजपत्नी । यथा, —
“देवगुरोः प्रसादेन जिह्वाग्रे मे सरस्वती । तेनाहं नृप ! जानामि भानुमत्यास्तिलं यथा ॥” इति वररुचिः ॥ (कृतवीर्य्यस्य दुहिता । सा च अहंयातेः पत्नी । “यथा, महाभारते । १ । ९५ । १५ । “अहंयातिः खलुकृतवीर्य्यदुहितरमुपयेमे भानु- मतीं नाम । तस्यामस्य जज्ञे सार्व्वभौमः ॥” अग्निरसः प्रथमा सुता । यथा, महाभारते । ३ । २१७ । ३ । “प्रजासु तासु सर्व्वासु रूपेणाप्रतिमाभवत् । देवी भानुमती नाम प्रथमाङ्गिरसः सुता ॥” यादवभानोः कन्या । यथा, हरिवंशे । १४७ । २ । “कन्यां भानुमतीं नाम भानोर्दुहितरं नृप ! ॥” दुर्य्योधनपत्नी । यथा, वेणीसंहारनाटके २ अङ्के । “आर्य्य ! एषा भानुमती देवी पत्युः समर- विजयासंशया निर्वर्त्तितगुरुपादवन्दनाद्यप्रभृति आरब्धनियमा बालोद्याने तिष्ठतीति ॥” गङ्गा । यथा, काशीखण्डे । २९ । १२९ । “भुक्तिमुक्तिप्रदा भेशी भक्तस्वर्गापवर्गदा । भागीरथी भानुमती भाग्यं भोगवती भृतिः ॥”)