वाचस्पत्यम्
भानुमत् || स्त्री भानुः किरणोऽस्त्यस्य मतुप् । १ सूर्य्ये शब्दरत्ना० २ अर्कवृक्षे च । भानुमालीत्यप्यत्र । ३ नृपभेदे पु० भा० भी० ५४ अ० । अहंजातिनृपस्य भार्य्यायां जाते कृतवीर्य्यस्य ४ दुहितृभेदे स्त्री भा० आ० ९५ अ० ।
शब्दकल्पद्रुमः
भानुमान् || [त्] पुं, (भानवः सन्त्यस्येति । भानु + मतुप् ।)
सूर्य्यः । इति शब्दरत्नावली ॥ (यथा, कुमारसम्भवे । ३ । ६५ । “अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण । विशोषितां भानुमतो मयूखै- र्मन्दाकिनी पुष्करबीजमालाम् ॥” कलिङ्गदेशजनृपतिविशेषः । यथा, महाभारते । ६ । ५१ । ३३ । “भानुमांस्तु ततो भीमं शरवर्षेण दारयन् । ननाद बलवन्नादं नादयानो नभस्तलम् ॥” केशिध्वजस्य पुत्त्रः । यथा, भागवते । ९ । १३ । २१ । “भानुमांस्तस्य पुत्त्रोऽभूच्छतद्युम्नस्तु तत्- सुतः ॥”)
दीप्तियुक्ते, त्रि ॥ (यथा, महाभारते । १ । ३० । ४७ । “चर्म्माण्यपि च गात्रेषु भानुमन्ति दृढाणि च ॥”)