वाचस्पत्यम्
भार || पु० भृ—घञ् । १ गुरुत्वपरिमाणे २ तद्वति द्रव्ये ३ विंशति- तुलापरिमाणे (अष्टसहस्रतोलकपरिमाणे) च पु० । ३ वीबधे ४ विष्णौ च मेदि० ।
शब्दकल्पद्रुमः
भारः || पुं, (भ्रियते इति । भृञ् भरणे + “अकर्त्तरि च कारके संज्ञायाम् ।” ३ । ३ । १९ । इति घञ् ।)
विंशतितुलापरिमाणम् । इत्य- मरः ॥ तत्तु अष्टसहस्रतोलकात्मकमिति यावत् । बीवधः । यथा, —
“अविश्रामं वहेद्भारं शीतोष्णञ्च न विन्दति । ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्द्दभात् ॥” इति चाणक्यम् ॥ * ॥
विष्णुः । इति मेदिनी । रे, ७२ ॥ गुरुत्वञ्च ॥ (गुरुत्वगुणवद्वस्तु ॥)