वाचस्पत्यम्
भारत || न० भरतान् भरतवंश्यानधिकृत्य कृतोग्रन्थः अण् । भारं वेदादिशास्त्रेभ्योऽपि सारांशं तनोति तन—ड वा । १ वेदव्यासप्रणीते लक्षश्लोकात्मके ग्रन्थभेदे । भरतेन चि- ह्नितं तस्येदं वा अण् । “हिमाह्वं दक्षिणं वर्षं भरताय ददौ पिता । तस्माच्च भारतं वर्षम्” इत्युक्ते जम्बुद्वीपा- न्तर्गते २ वर्षभेदे । भरतस्य गोत्रापत्यम् अण् । भरतनृपस्य ३ वंश्ये । भरतेन मुनिना प्रोक्तमण् । ४ भरतमुनिकृते नाटक- शास्त्रादौ न० । तदधीयते पुनरण् । ५ नटे ब० व० ६ अग्निभेदे च ग्रन्थरूपभारतशब्दस्य निरुक्तिः भा० आ०१ अ० दर्शिता यथा “एकतश्चतुरो वेदान् भारतञ्चैतदेकतः । पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम् । चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा । तदाप्रभृति लोकेऽस्मिन् महा- भारतमुच्यते । महत्त्वे च गुरुत्वे च ध्रियमाणं यतो- ऽधिकम् । महत्त्वाद्भारतत्वाच्च महाभारतमुच्यते । नि- रुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते” । तच्च वेदव्यासेन कृतं तदादिष्टः तच्छिष्यः वैशम्पायनः जनमेजयं श्रावयामास यथोक्तं भा० आ० १ अ० । “जनमेजयेन पृष्टः सन् व्राह्मणैश्च सहस्रशः । शशास शिष्यमासीनं वैशम्पायनमन्तिके । स सदस्यैः सहासीनः श्रावयामास भारतम् । कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनःपुनः । विस्तरं कुरुवंशस्य गान्धार्य्या धर्मशीलताम् । क्षत्तुः प्रज्ञां, धृतिं कुन्त्याः सम्यग्द्वैपायनोऽव्रवीत् । वासु- देवस्य माहात्म्यं पाण्डवानाञ्च सत्यताम् । दुर्वृत्तं धार्त्तराष्ट्राणामुक्तवान् भगवानृषिः” । तच्च नानाविधं नानासंख्यान्वितं च कृतं लोके तु शतसा- हस्रसंख्यातं यथोक्तं तत्रैवाध्याये “चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । उपा- ख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः । ततोऽध्यर्ङ्गशतं भूयः संक्षेपं कृतवानृषिः । अनुक्रमणिकाध्यायं वृत्ता- न्तानां सपर्वणाम् । इदं द्वैपायनः पूर्बं पुत्रमध्यापय- च्छुकम् । ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ विभुः । षष्टिं शतसहस्राणि चकारान्यां स संहिताम् । त्रिंशच्छतसहस्रञ्च देवलोके प्रतिष्ठितम् । पित्र्ये पञ्च- दश प्रोक्तं गन्धर्वेषु चतुर्दश । एकं शतसहस्रन्तु मानु- षेषु प्रतिष्ठितम् । नारदोऽश्रावयद्देवानसितो देवलः पितृन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः । अस्तिंस्तु मानुषे लोके वैशम्पायन उक्तवान् । शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदांवरः । एकं शतसहस्रन्तु मयोक्तं वै निबोध तत्” । तच्चाष्टादशमहापर्वयुतं तदवा- न्तरपर्बशतकं तद्विभागस्तत्र वर्णनीयपदार्थानां संग्रहश्च भा० आ० २ अ० दर्शितो यथा “भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः । आदिपर्वणि “१ पर्वानुक्रमणी पूर्वं द्वितीयः २ पर्वसंग्रहः । ३ पौष्यं ४ पौ- लोममास्तीक ५ मादिरं (वं) शावतारणम् ६ । ततः सम्भव ७ प- र्वोक्तमद्भुतं रोमहर्षणम् । ८ दाहो जतुगृहस्यात्र है- डिग्बं ९ पर्व चोच्यते । तती वकबधः १० पर्व पर्व चैत्र- रथं ११ ततः । ततः स्वयम्बरी १२ देव्याः पाञ्चाल्याः पर्व चोच्यते । क्षात्रधर्मेण निर्जित्य तती वैवाहिकं १३ स्मृतम् । विदुरागमनं पर्व राज्यलाभस्तथैव १४ च । अर्जुनस्य वने वासः १५ सुभद्राहरणं १६ ततः । सुभद्रा- हरणादूर्द्ध्वं ज्ञेयं हरणकारिका १७ । ततः खाण्डय- दाहाख्यं १८ तत्रैव मयदर्शनम् । (२) सभापर्व तत १९ प्रोक्तं मन्त्रपर्व २० ततः परम् । जरासन्धबधः २१ पर्व पर्व दिग्विजय २२ स्तथा । पर्व दिग्विजयादूर्द्ध्वं राजसूयिक २३- मुच्यते । ततश्चार्घाभिहरणं २४ शिशुपालबध २५ स्ततः । द्यूतपर्व २६ ततः प्रोक्तमनुद्यूत २७ मतः परम् । तत (३) आरण्यकं पर्व किर्मीरबधः २८ एव च । अर्जुनस्या- भिगमन २९ पर्व ज्ञेयमतः परम् । ईश्वरार्जुनयोर्युद्धं पर्व कैरात ३० संज्ञितम् । इन्द्रलीकाभिगमनं ३१ पर्व प्रेयमतः परम् । नलीपाख्यान ३२ मपि च धर्मिष्ठं करु- णोदयम् । तीर्थयात्रा ३३ ततः पर्व कुरुराजस्य धीमतः । जटासुरबधः ३४ पर्व यस्तयुद्ध ३५ मतः परम् । निवातकवचैर्युर्द्ध ३६ पर्व चाजगर ३७ स्ततः । मार्क- ण्डेसमास्या ३८ च पर्वानन्तरमुच्यते । संवादश्च ततः पर्वं द्रौपदीसत्यभांमयोः ३९ । घोषयात्रा ४० ततः पर्व मृग- स्वर्योद्भव ४१ स्ततः । व्रीहिद्रौणिक ४२ माख्यानमैन्द्रद्युम्नं (समास्यान्तर्गतं) तथैव च । द्रौपदीहरणं ४३ पर्व जयद्रथविमोक्षणम ४४ । पतिव्रताया महात्म्यं सावि- त्र्याश्चैवमद्भुतम् ४५ । रामोपाख्यान ४६ मत्रैव पर्व ज्ञेय- मतः परम् । कुण्डलाहरणं ४७ पर्व ततः परमिहोच्यते । आरणेय ४८ न्ततः पर्व (४) वैराटन्तदनन्तरम् । पाण्ड- वानां प्रवेशश्च ४९ समयस्य च पालनम् । कीचकानां बधः ५० पर्व पर्व गोग्रहण ५१ न्ततः । अभिमन्योश्च वैराट्या पर्व वैवाहिकं ५२ स्मृतम् । (५) उद्योगपर्व विज्ञेयमत ऊर्द्ध्वं महाद्भुतम् । ततः सञ्जयया- नाख्य ५३ पर्व ज्ञेयमतः परम् । प्रजागरस्ततः ५४ पर्व धृतराष्ट्रस्य चिन्तया । पर्व सनत्शुजातं ५५ वै गुह्य- मध्यात्मदर्शनम् । यानसन्धि ५६ स्ततः पर्व भगवद्- यान ५७ मेवच । मातुलीयमुपाख्यानं चरितं गालवस्य च । सभाप्रवेशः कृष्णस्य विदुरापुत्रशासनम् । ज्ञेयं विवादपर्वा ५८ त्र कर्णस्यापि महात्मनः । निर्याणञ्च ५९ ततः पर्व कुरुपाण्डवसेनयोः । रथातिरथसंख्या ६० न पर्वोक्तं तदनन्तरम् । उलूकदूतागमनं ६१ पर्वा- मर्षविवर्द्धनम् । अन्वोपाख्यान ६२ मत्रैव पर्व ज्ञेय- मतः परम् । भीष्माभिषेषचनं (६) पर्ब ततश्चाद्भुत मुच्यते । जम्बूखण्डविनिर्माणं ६३ पर्वोक्तं तदनन्त- रम् । भूमिपर्व ६४ ततः प्रोक्तं द्वीपविस्तारकीर्त्तनम् । पर्वोक्तं भगवद्सीता ६५ पर्व भीष्मवध ६६ स्ततः । द्रो- णाभिषे (७) चनं पर्व संशप्तकबधः ६७ स्ततः । अभिमन्यु- बभः ६८ पर्व प्रतिज्ञा ६९ पर्व चोच्यते । जयद्रथ- बधः ७० पर्व धठोत्कचबध ७१ स्ततः । ततो द्रोणबधः ७२ पर्व विज्ञेयं लोमहर्षणम् । मोक्षो ७३ नारायणास्त्रस्य पर्वानन्तरमुच्यते । कर्णपर्व (८) ततो ज्ञेयं शल्यपर्व (९) ततः परम् । ह्रदप्रनेशनं ७४ पर्व पदायुद्धमतः ७५ परम् । सारस्वतं ७६ ततः पर्व तीर्थवंशानुकीर्त्तनम् । अत ऊर्द्ध्वं सुबीभत्सं पर्व सौप्तिक (१०) सुच्यते । ऐ- षीकं ७७ पर्व चोद्दिष्टमत ऊर्द्ध्वं सुदारुणम् । जलप्रदा- निकं ७८ पर्व स्त्रीविलाप (११) स्ततः परम् । श्राद्धपर्व ७९ ततो ज्ञेयं कुरूणाभौर्द्ध्वदेहिकम् । चार्वाकस्य बधः ८० पर्व रक्षसो ब्रह्मरूपिणः । आभिषेचकनिकं ८१ पर्व धर्मराजस्य धीभतः । प्रतिभागो ८२ गृहाणाञ्च पर्वोक्तं तदनन्तरम् । शान्तिपर्व (१२) ततो यत्र राज- धर्मानुशासनम ८३ । आपद्धर्मश्च ८४ पर्वोक्तं मोक्षधर्म- ८५ स्ततः परम् । शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशास- नम् । प्रादुर्भावश्च दुर्वासःसंवादश्चैव मायया । ततः पर्व परिज्ञेयमानुशासनिकम् (१३) परम् । स्वर्गा- पोहणिकञ्चैव ततो भीष्मस्य धीमतः । ततीऽश्व- मेधिकं (१४) पर्व सर्वपापप्रणाशनम् । अनुगीता ८६ ततः पर्व ज्ञेयमध्यात्मवाचकम् । पर्व चाश्रमवासा (१५) ख्यं पुत्रदर्शनमेव च । नारदागमनं ८७ पर्व ततः परि- मिहोच्यते । मौसलं (१६) पर्व चोद्दिष्टं ततो घोरं सुदारुणम् । महाप्रस्थानिकं (१७) पर्व स्वर्गारोहणिकं (१८) तत । हरिवंशस्ततः पर्व ८८ पुराणं खिलमज्ञितम् । विष्णुपर्व ८९ शिशोश्चर्य्या विष्णोः कंसबधस्तथा । भविष्यं पर्व ९० चाप्युक्तं खिलेष्वेवाद्भुतं महत् । एतत् पर्व शतं पूर्णं व्यासेनोक्तं महात्मना । (महापर्वसहितं किञ्चिदधि- कशतपर्वाण्यत्रेति बोध्यम्) । यथावत् सूतपुत्रेण लौमहर्षणिना ततः । उक्तानि नैमिषारण्ये पर्वाण्य ष्टादशैव तु । समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः । पौष्यं पोलीममास्तीकमादिरं(वं)शावतारणम् । सम्भवी जतुवेश्गाख्यं हिडिम्बवकयोर्वधः । तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः । क्षात्रधर्मेण निर्जित्य ततो वैवाहिक स्मृतम् । विदुरागमनञ्चैव राज्यलम्भस्तथैव च । वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः । हरणा- हरणञ्चैव दहनं खाण्डवस्य च । मयस्य दर्शनञ्चैव आदिपर्वणि कथ्यते । पौष्ये पर्वणि महात्म्यमुतङ्क- स्योपवर्णितम् । पौलोमे भृगुवंशस्य विस्तारः परिकी र्त्तितः । आस्तीके सर्वनागानां गरुडस्य च सम्भवः । क्षीरोदमथनञ्चैव जन्मोच्चैःश्रवसस्तथा । यजतः सर्प- सत्रेण राज्ञः पारीक्षितस्य च । कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् । विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि । अन्येषाञ्चैव शूराणामृषेर्द्वैपाथनस्य च । अंशावतारणञ्चात्र देवानां परिकीर्त्तितम् । दै- त्यानां दानवानाञ्च । यक्षाणाञ्च महौजसाम् । नागा- नामथ सर्पाणां गन्धर्वाणां प्रतत्रिणाम् । अन्येषाञ्चैव भूतानां विविधानां समुद्भवः । महर्षेराश्रमपदे कण्ठस्य च तपस्विनः । शकुन्तलायां दुष्मन्ताद्भरतश्चापि जज्ञि- वान् । यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम् । वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् । शान्तं- नोर्वेश्मनि पुनस्तेषाञ्चारोहणं दिवि । तेजोऽंशानाञ्च सम्पातो भीष्मस्याप्यत्र सम्भवः । राज्यान्निवर्त्तनं तस्य ब्रह्मचर्य्यव्रते स्थितिः । प्रतिज्ञापालनञ्चैव रक्षा चित्रा- ङ्गदस्य च । हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः । विचित्रवीर्य्यस्य तथा राज्ये सम्प्रतिपालनम् । धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा । कृष्णद्वैपायनाच्चैव पसूतिर्वरदानजा । धृतराष्ट्रस्य पाण्डोश्च पाण्डवानाञ्च सम्भवः । वारणाबतयात्रार्या मन्त्रो दुर्य्योधनस्य च । कूटस्य धार्त्त राष्ट्रेण प्रेषणं पाण्डवान् प्रति । हितोपदेशश्च पथि धर्मराजस्थ धीमतः । विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया । विदुरस्य च वाक्येन सुरङ्गीपक्रमक्रिया । निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि । पुरोचनस्य चात्रैव दहनं स- म्प्रकीर्त्तितम् । पाण्डवानां बने घोरे हिडिम्बायाश्च दर्शनम् । तत्रैव च हिडिम्बस्य बधो भीमान्महाबलात् । धटोत्कचस्य चोत्पत्ति रत्रैव परिकीर्त्तिता । महर्षे- र्दर्शनञ्चैव व्यासस्यामिततेजसः । तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने । अज्ञातचर्य्यया वासो यत्र तेषां प्रकीर्त्तितः । वकस्य निधने चैव नागराणाञ्च विस्मयः । सम्भवश्चैव कृष्णाया धृष्टद्यम्नस्य चैव हि । ब्राह्म- णात् समुपश्रुत्य व्यासवाक्यप्रचोदिताः । द्रौपटीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया । पाञ्चालानमितोज- ग्मुर्यत्र कौतूहलान्विताः । अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा । सख्यं कृत्वा ततस्तेन तस्मादेव च सुश्रुवे । तापत्यमथ वाशिष्ठभौर्वञ्चाख्यानमुत्तमम् । भ्रातृभिः सहितः सर्वैः पाञ्चालानभिती ययौ । पाञ्चालनगरे चापि लक्ष्य भित्त्वा धनञ्जयः । द्रौपर्दी लब्धवानत्र मध्ये सर्वमहीक्षिताम् । भीमसेनार्जुनौ यत्र संरब्घान् पृथिवीपतीन् । शल्यकर्णौ च तरसा जितवन्तौ महामृधे । दृष्ट्वा तयोश्च तद्वीर्य्यमप्रमेयममा- नुषम् । शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती । जन्मतुस्तैः समागन्तुं शालाम्भार्गववेश्मनि । पञ्चानामे- कपत्नीत्वे विमर्षो द्रुपदस्य च । पञ्चेन्द्राणासुपाख्या- नमषैवाद्भुतमुच्यते । द्रौपद्या देवविहितो विवाहश्चाप्य- मानुषः । क्षत्तुश्च धृतराष्ट्रेण प्रेषणं पाण्डवान् प्रति । विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च । खाण्डव- प्रस्थवासश्च तथा राज्यार्द्धशासनम् । नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तद्वदाख्यानं परिकीर्त्तितम् । अनन्तरञ्च द्रौपद्या सहासीनं युधि- ष्ठिरम् । अनुप्रविश्य विप्रार्थं फाल्गुनो गृह्य चायु- धम् । मीक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः । समयं पालयन् वीरो वनं यत्र जगाम ह । पार्थस्य वनवासे च उलूप्या पथि सङ्गमः । पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च । तत्रैव मोक्षयामास पञ्च सोऽपू- सरसः शुभाः । शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तप- स्विनः । प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः । द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेव- स्यानुमते प्राप्ता चैव किरीटिना । गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने । अभिमन्थोः सुभद्रायां जन्म श्चोत्तमतेजसः । द्रौपद्यास्तनयानाञ्च सम्भवोऽनु- प्रकीर्त्तितः । बिहारार्थञ्च गतयोः कृष्णयोर्यमुनामनु । सम्प्राप्तिवकधनुधोः खाण्डवस्य च दाहनम् । मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् । महर्षेर्मन्द- पालस्य शार्ङ्ग्यां तनयसम्भवः । इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम् । अध्यायानां शते द्वेतु संख्याते परमर्षिणा । सप्तविंशतिरध्याया व्यासेनोत्तमतेज सा । अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च । श्लोका० श्चतुरशीतिश्च मुनिनोक्ता महात्मना (१) । द्वियतीन्तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्ड- वानां किङ्कराणाञ्च दर्शनम् । लोकपालसभाख्यानं नारदा- द्देवदर्शिनः । राजसूयस्य चारम्भो जरासन्धबधस्तथा । गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन गोक्षणम् । तथा दिग्विजयोऽत्रैव पाण्डबानां प्रकीर्त्तितः । राज्ञामा- गमनञ्चैव सार्हणानां महाक्रतौ । राजसूयेऽर्घ्यसंवादे शिशुपालबधस्तथाः यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षा- न्वितस्य च । दुर्य्योधनस्याबहासो भीमेन च सम्भातले । यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र षर्म- सुतं द्यूते शकुनिः कितवोऽजयत् । यत्र द्यूतार्णवे मग्नां द्रौपदीं नावमर्णवात् । धृतराष्ट्री महाताज्ञः स्नुसां परमदुखिताम् । तारयामास तां तीर्णां ज्ञात्वा दुर्य्योधनो नृपः । पुनरेब ततो द्यूते समाह्वयत पाण्ड- वान् । जित्वा स वनवासाय प्रेषयामास तांस्ततः । एतत् सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया । श्लोकानां द्वे स- हस्त्रे तु पञ्च श्लोकशंतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन् द्विजोत्तमाः” (२) । (द्वितीयसभापर्व) ||“अतःपरं तृतीयन्तु ज्ञेयमारण्यकं महत् । वनवासं प्रयातेषु पाण्डवेषु महात्मसु । पौरानु- गमनञ्चैव धर्मपुत्रस्य धीमतः । अन्नौषधीनाञ्च कृते पाण्डवेन महात्मना । द्विजानां भरणार्थञ्च कृत- माराधनं रवेः । धौम्योपदेशात्तिग्मांशुप्रसादादन्न- सम्भवः । हितन्तु ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासु- तात् । त्यक्तस्य पाण्डुपुत्राणां समीपगमनन्तथा । पुनरागमनञ्चैव धृतराष्ट्रस्य शासनात् । कर्णप्रोत्साहना- च्चैव धार्त्तराष्ट्रस्य दुर्मतेः । वनस्थान् पाण्डवान् हन्तुं मन्त्रो दुर्य्योधनस्य च । तं दुष्टभावं विज्ञाय व्यासस्या- गमनं द्रुतम् । निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च । मैत्रेयागमनञ्चात्रं राज्ञश्चैवानुशासनम् । शापोत्- सर्गश्च तेनैव राज्ञो दुर्य्योधनस्य च । किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे । घृष्णीनामागमश्चात्र पाञ्चालानाञ्च सर्वशः । श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान् । क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना । परि- देवनञ्च पाञ्चाल्या वासुदेवस्य सन्निधौ । आश्वासनञ्च कृष्णेन दुःखार्त्तायाः प्रकीर्त्तितम् । तथा सौभबधा- ख्यानमत्रैवोक्तं महर्षिणा । सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम् । नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव हि । प्रवेशः पाण्डवेयानां रम्ये द्वैतबने ततः । धर्मराजस्य चात्रैव संवादः कृष्णया सह । संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्त्तितः । समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा । प्रतिस्मृत्याश्च विद्याया दानं राज्ञो महर्षिणा । गमनं काम्यके चापि व्यासे प्रतिगते ततः । अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः । भहा- देवेन युद्धञ्च किरातवपुषा सह । दर्शनं लोकपाला- नामस्त्रप्राप्तिस्तथैब च । महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः । यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी । दर्शनं वृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य चार्त्तस्य व्यसने परिवेदनम् । नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य चरितं यथा । तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः । लोमशस्यागमस्तत्र स्वर्गात् पाण्डुसुतान् प्रति । वन- वासगतानाञ्च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्ति- राख्याता लोमशेनार्जुनस्य वै । सन्देशादर्जुनस्यात्र तीर्थाभिगमनक्रिया । तीर्थानाञ्च फलप्राप्तिः पुण्यत्य- ञ्चापि कीर्त्तितम् । पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा । तीर्थयात्रा च तत्रैव पाण्डवानां महा- त्मनाम् । कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्द- रात् । तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्त्तितः । आगस्त्यमपि चाख्यानं यत्र बातापिभक्षणम् । लोपा- मुद्राभिगमनमपत्यार्थमृषेस्तथा । ऋष्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं भूरितेजसः । कार्त्तवीर्य्यबधो यत्र हैहयानाञ्च व- र्ण्यते । प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः । सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः । शर्य्या तियज्ञे नासत्यौ कृतवान् सोमपीतिनौ । ताभ्याञ्च यत्र स मुनिर्यौवनं प्रतिपादितः । मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्त्तितम् । जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतञ्च सः । ततः श्येनकपीतीयमुपाख्यानमनुत्तमम् । इन्द्वाग्नी पत्र धर्मश्चाभ्यजिज्ञासञ्छिविं नृपम् । अष्टावक्रीयमत्रैव विवादो यत्र वन्दिना । अष्टावक्रस्य विग्रर्षेर्जनकस्या- ध्वरेऽभवत् । नैयाभिकातां मुख्येन वरुणस्यात्मजेन च । पराजितो यत्र वन्दी विवादेन महात्मना । विजित्य सागरं प्राप्तं पितरं लब्धवामृषिः । यवक्रीतस्य चा- ख्यानं रैभ्यस्य च महात्मनः । गन्धमादनयात्रा च वासो नारायणाश्रमे । नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । व्रजन् पथि महाबाहुर्दृष्टवान् पवना- त्मजम् । कदलीषण्डमध्यस्थं हनूमन्तं महाबलम् । यत्र सौगन्धिकार्थेऽसौ नलिनीं तामधर्षयत् । यत्रास्य युद्धमभवत् सुमहद्राक्षसैः सह । यक्षैश्चैव महावीर्य्यै- र्मणिमत्प्रमुखैस्तथा । जटासुरस्य च बधो राक्षसस्य वृकोदरात् । वृषपर्वणो राजर्षेस्ततोऽभिगमनं स्मृतम् । आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च । प्रीत्साह नञ्च पाञ्चाल्या भीमस्यात्र महात्मनः । कैलासारो- हणं प्रोक्तं यत्र यक्षैर्वलोत्कटैः । युद्धमासीन्महा- घोरं मणिमत्प्रमुखैः सह । समागमश्च पाण्डूनां यत्र वैपवणेन च । समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह । अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना । निवातकवचैर्युद्धं हिरण्यपुरवासिभिः । निवातकव चैर्घोरैर्दानवैः सरशत्रुभिः । पौलोमैः कालकेयैश्च यत्र युदुं किरीटिनः । बवश्चैषां समाख्याती राज्ञस्तेनैव वीमता । अस्त्रसन्दर्शनारम्भौ धर्मराजस्य सन्निधौ । पार्थस्य प्रतिषेधश्च नारदेन सुरर्षिणा । अवरोहः पुनश्चैव पाण्डूनां गन्धमादनात् । भीमस्य ग्रहण- ञ्चात्र पर्वताभोगवर्ष्मणा । भुजगेन्द्रेण बलिना त- स्मिन् सुगहने वने । अमोक्षयद्यत्र चैनं प्रश्नामुक्त्वा युधिष्ठिरः । काम्यकागमनञ्चैव पुनस्तेषां महात्मनाम् । तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान् पुरुषर्षभान् । वासुदेव- स्यागमनमत्रैव परिकीर्त्तितम् । मार्कण्डेयस्य च तथा देवर्षेर्नारदस्य च । मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः । पृथोर्वैण्यस्य यत्रोक्तमाख्यानं परमर्षिणा । संवादश्च सरस्वत्या तार्क्ष्यर्षेः सुमहात्मनः । मत्स्यो- पाख्यानमत्रैव प्रोच्यते तदनन्तरम् । मार्कण्डेयसमास्या च पुराणं परिकीर्त्तितम् । ऐन्द्रद्युम्नमुपाख्यानं धौन्धु- मारं तथैव च । पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम् । द्रौपद्याः कीर्त्तितश्चात्र संवादः सत्यभामया । पुनर्द्वैतवनञ्चैव पाण्डवाः समुपागताः । घोषयात्रा च गन्धर्वेर्यत्र बद्धः सुषोधनः । ह्रियमानस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना । धर्मराजस्य चात्रैव मृग- स्वप्नागिदर्शनम् । काम्यके काननश्रेष्ठे पुनर्गमनमुच्यन । व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम् । दुर्वास सोऽप्युपाख्यानमत्रैव परिकीर्त्तितम् । जयद्रथेवाप- हारो द्रौपद्याश्चाश्रमान्तरात् । यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । चक्रे चेनं पञ्चशिखं यत्र भीमो महाबलः । रामायणमुपाख्यानमत्रैव बहुविस्तरम् । यत्र रामेण विक्रमम्य निहिती रावणो युधि । सा० वित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्त्तितम् । कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात् । यत्रास्य शक्तिं तुष्टोऽदादेकवीरबधाय च । आरणेयमुपाख्यानं यत्र- धर्मोऽन्वशात् सुतम् । जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् । एतदारण्यकं पर्व तृतीयं परि- कीर्त्तितम् । अत्राध्यायशते द्वे तु संख्यया परिकीर्त्तिते । एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्त्तिताः । एकादश सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन् प्रकीर्त्तिताः ३ । (वनपर्व) “अतःपरं निबोधेदं वैराटं पर्व विस्तरम् । विराटनगरं गत्वा श्मशाने विपुलां शमीम् । दृष्ट्वा सन्निदधुस्तत्र पा- ण्डवा ह्यायुधान्युत । यत्र प्रविश्य नगरं छद्मना न्यवसं स्तु ते । पाञ्चालीं प्रार्थयानम् कामोपहतचेतसः । दुष्टा- त्ननो वधो यत्र कीचकस्य वृकोदरात् । पाण्डवान्येषणा- र्थञ्च राज्ञो दुर्य्योधनस्य च । चराः प्रस्थापिताश्चात्र निपुणाः सर्वतो दिशम् । न च प्रवृत्तिस्तैर्लब्धा पाण्ड- वानां महात्मनाम् । गोग्रहश्च विराटस्य त्रिगर्त्तैः प्र- थमं कृतः । यत्रास्य युद्धं सुमहत् तैरासील्लोमहर्ष- णम् । ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः । गोधनञ्च विराटस्य मोक्षितं यत्र पाण्डवैः । अनन्त- रञ्च कुरुभिस्तस्य गोग्रहणं कृतम । समस्ता यत्र पा- र्थेन निर्जिताः कुरवो युधि । प्रत्याहृतं गोधनञ्च वि- क्रमेण किरीटिना । विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघाति- नम् । चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि परिसंख्याता अध्यायाः परमर्षिणा । सप्तषष्टिरथो पूर्णा श्लोकानामपि मे शृणु । श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु । उक्तानि वेदविदुषा पर्वण्यस्मिन् महर्षिणा ४ । (विराटपर्व) ||“उद्योगपर्वः विज्ञेयं पञ्चमं शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया । दुर्य्यो- धनोऽर्जुनश्चैव वासुदेवमुपस्थितौ । साहाय्यमस्मिन् समरे भवान्नौ कर्त्तुमर्हति । इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः । अयुध्यमानमात्मानं मन्त्रिणं पु- रुषर्षभौ । अक्षौक्षिणीं वा सैन्यस्य कस्य किंवा ददा- म्यहम् । वव्रे दुर्य्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः । मद्रराजञ्च राजानमायान्तं पाण्डवान् प्रति । उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः । वरदं तं वरं वव्रे साहाय्यं क्रियतां मम । शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पा- ण्डवान् । शान्तिपूर्वञ्चाकथयद्यत्रेन्द्रविजयं नृपः । पुरो- हितप्रेषणञ्च पाण्डवैः कौरवान् प्रति । वैचित्रवीर्य्यस्य वचः समादाय पुरोधमः । तथेन्द्रविजयञ्चापि यानञ्चैव पुरोधसः । सञ्जयं प्रेषयामास शमार्थी पाण्डवान् प्रति । यत्र दूतं महाराजो घृतराष्ट्रः प्रतापवान् । श्रुत्वा च पाण्डवान् यत्र वासुदेवपुरोगमान् । प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिनया । विदुरो यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानं धृत- राष्ट्रं मनीषिणम् । तथा सनत्सुजातेन यत्राध्यात्म मनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शीकला लसः । प्रमाते राजसमितौ सञ्जयो यत्र वा विभोः । रेक्यात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च । तत्र कृष्णो दयापन्नः सन्धिमिच्छन्महामतिः । स्वयमागाच्छमं कर्त्तं नगरं नागसाह्वयम् । प्रत्याख्यानञ्च कृष्णस्य राज्ञा दुर्य्योधनेन वै । शमार्थे याचमानस्य पक्षयोरुभयोर्हि- तम् । दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्त्तितम् । वरान्वेषणमत्रैव मातलेश्च महात्मनः । महर्षेश्चापि चरितं कथितं गालवस्य वै । विदुलायाश्च पुत्रस्य प्रोक्त- ञ्चात्यनुशासनम् । कर्णदुर्य्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम् । रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपाय- पूर्वं शौटीर्य्यात् प्रत्याख्यातश्च तेन सः । आगम्य हा- स्तिनपुरादुपप्लव्यमरिन्दम! । पाण्डवानां यथावृत्तं सर्वमाख्यातवान् हरिः । ते तस्य वचनं श्रुत्वा मन्त्र- यित्वा च यद्धितम् । सांग्रामिकं ततः सर्वं सज्यञ्चक्रुः परन्तपाः । ततो युद्धाय निर्याता नराश्वरथदन्तिनः । नगराद्धास्तिनपुराद्बलसंख्यानमेव च । यत्र राज्ञा ह्यू- लूकस्य प्रेषणं पाण्डवान् प्रति । श्वो भाविनि महा- युद्धे दौत्येन कृतवान् प्रभुः । रथातिरथसंख्यानमम्बो- पाख्यानमेव च । एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते । उद्योगपर्व निर्दिष्टं सन्धिविग्रहमिश्रितम् । अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा । श्लोकानां षट् सहस्राणि ताबन्त्येव शतानि च । श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना । व्यासेनोदारमतिना पर्व- ण्यस्मिंस्तपोधनाः! (५) । (उद्योगपर्व) “अतःपरं विचित्रार्थं भीष्मपर्व प्रचक्षते । जम्बू- खण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह । यत्र यौधि- ष्ठिरं सैन्यं विषादमगमत् परम् । यत्र युद्धमभूघोरं दशाहानि सुदारुणम् । कश्मल यत्र पार्थस्य वासुदेवो महामतिः । मोहजं नाशयामास हेतुभि- र्मोक्षदर्शिभिः । समीक्ष्याधोक्षजः क्षिप्रं युधिष्ठिरहि- तेरतः । रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः । प्रतोदपाणिराधावद्भीष्म हन्तुं व्यपेतभीः । वाक्यप्रतोदा- भिहितो यत्र कृष्णेन पाण्डवः । गाण्डीवधन्वा समरे सर्वशस्त्रभृताम्बरः । शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः । विनिघ्नन्निशितैर्बाणैरथाद्भीष्ममपातयत । शरतल्पगतश्चैव भीष्मी यत्र बभूव ह । षष्ठमेतत् समा- ख्यातं भारते पर्व विस्तृतम् । अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे । पञ्च श्लोकसक्षस्राणि संख्ययाष्टौ शतानि च । तीकात चतुरशीतिरस्मिन् पर्यणि की- र्त्तिताः । व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि (६) । द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । सैनापत्येऽभि षिक्तोऽथ यत्राचार्य्यः प्रतापवान् । दुर्य्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित् । ग्रहणं धर्मराजस्य पाण्डु- पुत्रस्य धीमतः । यत्र संशप्तकाः पार्थमपनिन्यूरणा- जिरात् । भगदत्ती महाराजो यत्र शक्रसमो युधि । सुप्रतीवेन नागेन स हि शान्तः किरीटिना । यत्राभि- मन्युं बहवो जघ्नुरेकं महारथाः । जयद्रथसुखा बालं शूरमप्राप्तयौवनम् । हतेऽभिमन्यौ क्रुद्धेन्न यत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः । यत्र भीमो महाबाहुः सात्यकिश्च मयारथः । अन्वे- षणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया । प्रविष्टो भारतीं सेनामप्रघृष्यां सुरैरपि । संशप्तकावशेषञ्च कृतं निःशेष- माहवे । अलम्बूषः श्रुतायुश्च जलसन्धश्च वीर्य्यवान् । सौमदत्तिर्विराटश्च द्रुपदश्च महारथः । घटोत्कचा- दयश्चान्ये निहिता द्रोणपर्वणि । अश्वत्थामापि चा- त्रैव द्रोणे युधि निपातिते । अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः । आग्नेयं कीर्त्त्यते यत्र रुद्रमा- हात्म्यमुत्तमम् । व्यासस्य चाप्यागमनं माहात्म्यं कृष्ण- पार्थयोः । सप्तमं भारते पर्व महदेतदुदाहृतम् । यत्र ते पृथिवीपालाः प्रायशो निधनं गताः । द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः । अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः । अष्टौ श्लोकसहस्राणि तथा नव शतानि च । श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना । पाराशर्य्येण मुनिना संचिन्त्य द्रोणपर्वणि (७) । ||अतःपरं कर्णपर्व प्रोच्यते परमाद्भुतम् । मारथ्ये विनियोगश्च मद्रराजस्य धीमतः । आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् । प्रयाणे परुषश्चात्र संवादः कर्णश- ल्ययोः । हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम् । बधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना । दण्डसेनस्य च ततो दण्डस्य च यधस्तथा । द्वैरथे यत्र कर्णेब धर्म- राजो युधिष्ठिरः । संशयं गमितो युद्धे मिषतां सर्व- षन्विनाम् । अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरी- टिनीः । यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि । प्रतिज्ञापूर्वकञ्चापि वक्षो दुःशासनस्य च । भित्त्वा वृको- टरो रक्तं पीतवान् यत्र संयुगे । द्वैरथे यत्र पार्थेन हतः कर्णो महारथः । अष्टमं पर्व निर्दिष्टमेतद्भारत- चिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि । चत्वार्य्येव सहस्राणि नव श्लोकशतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मित् प्रकीर्त्तिताः (८) । (कर्णपर्व) “अतःपरं विचित्रार्थं शल्यपर्व प्रकीर्त्तितम् । हत- प्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् । यत्र कौमारका- ख्यानमभिषेचनकर्म च । वृत्तानि रथयुद्धानि कीर्त्त्यन्त्ये यत्र भागशः । विनाशः कुरुमुख्यानां शल्यपर्वणि की- र्त्त्यते । शल्यस्य निघनञ्चात्र धर्मराजान्महात्मनः । शकु- नेश्च बधोऽत्रैव सहदेवेन संयुगे । सैन्ये च हतभूयिष्ठे किञ्चिच्छिष्टे सुयोधनः । ह्रदं प्रविश्य यत्रासौ संस्तभ्यापो व्यवस्थितः । प्रवृत्तिस्तत्र वाख्याता यत्र भीमस्य लुब्धकैः । क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः । ह्रदात् समु- त्यितो यत्र धार्त्तराष्ट्रोऽत्यमर्षणः । भीमेन गदया युद्धं यत्रासौ वृतवात् सह । समवाये च युद्धस्य राम- स्यागमनं स्मृतम् । सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्त्तिता । गदायुद्धञ्च तुमुलमत्रैव परिकीर्त्तितम् । दुर्य्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे । ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया । नवमं पर्व निर्दिष्टमेत- दद्भुतमर्थवत् । एकोनषष्टिरध्यायाः पर्वण्यत्र प्रकी- र्त्तिताः । संख्याता बहुवृत्तान्ताः श्लोकसंख्यात्र कथ्यते । त्रीणि शोकसहस्राणि द्वे शते बिंशतिस्तथा । मुनिना मम्प्रणीतानि कौरवाणां यशीभृता (९) । (शल्यपर्व) “अतःपरं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । भग्नोरुं यत्र राजानं दुर्य्योधनममर्षणम् । अपयातेषु पार्थेषु त्रयस्ते- ऽभ्याययूरथाः । कृतवर्मा कृपो द्रौणिः सायाह्ने रुधि- रोक्षितम् । समेत्य ददृशुर्भूमौ पतितं रणमूर्द्धनि । प्रति- जज्ञे द
शब्दकल्पद्रुमः
भारतं || क्ली (भरतान् भरतवंशीयानधिकृत्य कृतो ग्रन्थ इत्यण् । यद्बा, भारं चतुर्वेदादिशास्त्रे- भ्योऽपि सारांशं तनोतीति । तन् + डः ।)
ग्रन्थभेदः । इति मेदिनी । ते, १३८ ॥ तत्तु व्यासप्रणीतलक्षश्लोकात्मकमहाभारतसंज्ञकेति- हासः । तस्य श्रवणादिफलं यथा, —
“भारतं शृणुयान्नित्यं भारतं परिकीर्त्तयेत् । भारतं भवने यस्य तस्य हस्तगतो जयः ॥ यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे सुबहुश्रुताय । पुण्याञ्च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव ॥ नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा । ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठश्चतुष्पदाम् । यथैतानीतिहासानां तथा भारतमुच्यते ॥ यश्चैनं श्रावयेत् श्राद्धे ब्राह्मणान् पादमन्ततः । अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ॥ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ कार्ष्णं वेदमिमं विद्वान् श्रावयित्वार्थमश्वुते । भ्रूणहत्याकृतञ्चापि पापं जह्यादसंशयः ॥” इति महाभारतम् ॥ * ॥
तद्वृत्तान्तो यथा, — ब्रह्मोवाच । “भारतं संप्रवक्ष्यामि भारावतरणं भुवः । चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्ततः ॥ विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्त्रोऽत्रिरत्रितः । सोमस्ततो बुधस्तस्मादुर्व्वश्यान्तु पुरोरवाः ॥ तस्माद्यस्तस्य पुत्त्रोऽभूद्ययातिर्भरतः कुरुः । शान्तनुस्तस्य वंशेऽभूद्गङ्गायां शान्तनोः सुतः ॥ भीष्मः सर्व्वगुणैर्युक्तो ब्रह्मवैवर्त्तपारगः । शान्तनोः सत्यवत्याञ्च द्वौ पुत्त्रौ संबभूवतुः ॥ चित्राङ्गदन्तु गन्धर्व्वः पुत्त्रं चित्ररथोऽवधीत् । अन्यो विचित्रवीर्य्योऽभूत् काशिराजसुतापतिः ॥ विचित्रवीर्य्ये स्वर्याते व्यासात्तत्क्षेत्रतोऽभवत् । धृतराष्ट्रोऽग्विकापुत्त्रः पाण्डुरम्बालिकासुतः ॥ भुजिव्यायान्तु विदुरो गान्धार्य्यां धृतराष्ट्रतः । दुर्य्योधनप्रधानास्तु शतसंख्या महाबलाः ॥ पाण्डोः कुन्त्याञ्च माद्य्राञ्च पञ्च पुत्त्राः प्रजज्ञिरे । युधिष्ठिरो भीमसेनः अर्ज्जुनो नकुलस्तथा । सहदेवश्च पञ्चैते महाबलपराक्रमाः ॥ कुरुपाण्डवयोर्वैरं दैवयोगाद्बभूव ह । दुर्य्योधनेन वीरेण पाण्डवाः स्रमुपद्रुताः । दग्धा जतुगृहे वीरास्ते मुक्ताः सुधियामलाः ॥ ततस्त एकचक्रायां ब्राह्मणस्य निवेशने । विप्रवेशा महात्मानो निहत्य वकराक्षसम् ॥ ततः पाञ्चालविषये द्रौपद्यास्ते स्वयंवरम् । विज्ञाय वीर्य्यशुल्कां तां पाण्डवा उपयेमिरे ॥ द्रोणभीष्मानुमत्या च धृतराष्ट्रः समानयत् । अर्द्धं राज्यं ततः प्राप्ता इन्द्रप्रस्थे पुरोत्तमे ॥ राजसूयं ततश्चक्रुः सभां कृत्वा यतव्रताः । अर्ज्जुनो द्वारवत्यान्तु सुभद्रां प्राप्तवान् प्रियाम् ॥ वासुदेवस्य भगिनीं मित्रं देवकिनन्दनम् ॥ गाण्डीवं नाम तद्दिव्यं त्रिषु लोकेषु विश्रुतम् । अक्षयान् शायकांश्चैव तथाभेद्यञ्च दंशनम् ॥ स तेन धनुषा वीरः पाण्डवो जातवेदसम् । कृष्णद्वितीयो वीभत्सुरतर्पयत वीर्य्यवान् ॥ नृपान् दिग्विजये जित्वा रत्नान्यादाय वै ददौ । युधिष्ठिराय महते भ्रात्रे नीतिविदे मुदा ॥ युधिष्ठिरोऽपि धर्म्मात्मा भ्रातृभिः परिवारितः । जितो दुर्य्योधनेनैव मायाद्यूतेन पापिना । कर्णदुःशासनमते स्थितेन शकुनेर्मते । अथ द्वादशवर्षाणि वने तेपुर्म्महत्तपः ॥ सधौम्या द्रौपदीसत्या मुनिवृन्दाभिसंवृताः । ययुर्विराटनगरं गुप्तरूपेण संस्थिताः ॥ वर्षमेकं महाप्राज्ञा गोग्रहादिमपालयन् । ततो ज्ञाताः स्वकं राष्ट्रं प्रार्थयामासुरादृताः ॥ पञ्च ग्रामानर्द्धराज्यं वीरा दुर्य्योधनं नृपम् । नाप्तवन्तः कुरुक्षेत्रे युद्धञ्चक्रुर्बलान्विताः ॥ अक्षौहिणीभिर्दिव्याभिः सप्तभिः परिवारिताः । एकादशभिरुद्युक्तास्तेऽपि दुर्य्योधनादयः ॥ आसीद्युद्धं स्वर्गमार्गं देवासुरबलोपमम् । भीष्मः सेनापतिरभूदादौ दौर्य्योधने बले ॥ पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह । शस्त्राशस्त्रैर्महाघोरं दशरात्रं शराशनिः ॥ शिखण्ड्यर्ज्जुनबाणैश्च भीष्मः शरशितैश्चितः । उत्तरायणमीक्ष्याथ ध्यात्वा देवं गदाधरम् ॥ उक्त्वा धर्म्मान् बहून् वर्षांस्तर्पयित्वा पितॄन् बहून् । आनन्दे तु पदे लीनो विमले मुक्तकिल्विषे ॥ ततो द्रोणो ययौ योद्धुं धृष्टद्युम्नेन वीर्य्यवान् । दिनानि पञ्च तद्युद्धमासीत् परमदारुणम् ॥ य एते पृथिवीपाला हताः पार्थास्त्रसागरे । शोकमासाद्य पुत्त्रेण द्रोणोऽपि स्वर्गमाप्नुयात् ॥ ततः कर्णो ययौ योद्धुमर्ज्जुनेन महात्मना । दिनद्वयं महद्युद्धं कृत्वा पार्थास्त्रसागरे ॥ निमग्नः सूर्य्यलोकन्तु ततः प्राप स वीर्य्यवान् । ततः शल्यो ययौ योद्धुं धर्म्मराजेन धीमता ॥ दिनार्द्धेन हतः शल्यो बाणैर्ज्वलनसन्निभैः । दुर्य्योधनोऽथ वेगेन गदामादाय वीर्य्यवान् ॥ अभ्यधावत वै भीभं कालान्तकयमोपमम् । अथ भीमेन वीरेण गदया विनिपातितः ॥ अश्वत्थामा ततो द्रौणिः सुप्तं सैन्यं ततो निशि । जघान बाहुवीर्य्येण पितुर्व्वधमनुस्मरन् ॥ धृष्टद्युम्न जघानाथ द्रौपदेयांश्च वीर्य्यवान् । द्रौपद्यां रोदमानायामश्वत्थाम्नः शिरोमणिम् । ऐषीकास्त्रेण तं जित्वा जग्राहार्ज्जुन उत्तमम् ॥ युधिष्ठिरः समाश्वास्य स्त्रीजनं शोकसङ्कुलम् । स्नात्वा सन्तर्प्य देवांश्च पितॄनथ पितामहान् । आश्वासितोऽथ भीष्मेण राज्यञ्चैवाकरोन्महत् ॥ विष्णुमीजेऽश्वमेधेन विधिवद्दक्षिणावता । राज्ये परिक्षितं स्थाप्य यादवानां विनाशनम् ॥ श्रुत्वा तु मौषले राजा जप्त्वा नामसहस्रकम् । विष्णोः स्वग जगामाथ भीमाद्यैर्भ्रातृभिर्युतः ॥” इति गारुडे १५० अध्यायः ॥ * ॥
वर्षभेदः । इति मेदिनी ॥ स तु जम्बुद्वीपस्य नववंर्षान्तर्गतनवमवर्षः । तद्विवरणं यथा, —
“उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ नवयोजनसाहस्रो विस्तारोऽस्य महामुने ! । कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम् ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः । बिन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्व्वताः ॥ अतः संप्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति च । तिर्य्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ! ॥ इतः स्वर्गश्च मोक्षश्च मध्यञ्चान्तश्च गम्यते । न खल्वन्यत्र मर्त्यानां कर्म्मभूमौ विधीयते ॥ भारतस्यास्य वर्षस्य नव भेदान्निशामय । इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥ नागद्वीपस्तथा सौम्यो गान्धर्व्वस्त्वथ वारुणः । अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ॥ योजनानां सहस्रन्तु द्बीपोऽयं दक्षिणोत्तरात् । पूर्ब्बे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥ ब्राह्मणाः क्षत्त्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुद्धबणिज्याद्यैर्व्वर्त्तयन्तो व्यवस्थिताः ॥ शतद्रुश्चन्द्रभागाद्या हिमवत्पादनिःसृताः । वेदस्मृतिमुखाश्चान्याः पारिपात्रोद्भवा मुने ! ॥ नर्म्मदासुरसाद्याञ्च नद्यो बिन्ध्यविनिःसृताः । तापी पयोष्णी निर्विन्ध्याप्रमुखा ऋक्षसम्भवाः ॥ गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा । सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥ कृतमाला ताम्रपर्णी प्रमुखा मलयोद्भवाः । त्रिसामा ऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥ ऋषिकुल्या कुमार्य्याद्याः शुक्तिमत्पादसम्भवाः । आसां नद्युपनद्यश्च सन्त्यन्याश्च सहस्रशः ॥ तास्विमे कुरुपाञ्चालमध्यदेशादयो जनाः । पूर्ब्बदेशादिकाश्चैव कामरूपनिवासिनः ॥ ओड्राः कलिङ्गा मगधा दाक्षिणात्याश्च कृत्- स्नशः । तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्व्वुदाः ॥ मारुका मालवाश्चैव पारिपात्रनिवासिनः । सौवीराः सैन्धवा हूणाः शाल्वाः शाकल- वासिनः ॥ मद्रा रामास्तथाम्बष्ठाः पारसीकादयस्तथा । आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥ समीपतो महाभाग ! हृष्टपुष्टजनाकुलाः । चत्वारि भारते वर्षे युगान्यत्र महामुने ! ॥ कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् । तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः ॥ दानानि चात्र दीयन्ते परलोकार्थमादरात् । पुरुषैर्यज्ञपुरुषो जम्बुद्बीपे सदेज्यते ॥ यज्ञैर्यज्ञपतिर्विष्णुरन्यद्वीपेषु चान्यथा । तत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने ! ॥ यतो हि कर्म्मभूरेषा ततोऽन्या भोगभूमयः । अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ! । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे । स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ कर्म्माण्यसङ्कल्पिततत्फलानि संन्यस्य विष्णौ परमात्मरूपे । अवाप्य तां कर्म्ममहीमनन्ते तस्मिल्लयं ये त्वमलाः प्रयान्ति ॥ जानीम नैतत् क्व वयं विलीने स्वर्गप्रदे कर्म्मणि देहबन्धम् । प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः ॥ नववर्षन्तु मैत्रेय ! जम्बुद्वीपमिदं मया । लक्षयोजनविस्तारं संक्षेपात् कथितं तव ॥ जम्बूद्बीपं समावृत्य लक्षयोजनविस्तरः । मैत्रेय ! वलयाकारः स्थितः क्षारोदधिर्बहिः ॥” इति श्रीविष्णुपुराणे २ अंशे ३ अध्यायः ॥ * ॥
आस्मिन् वर्षे जन्मकारणं तत्साफल्यञ्च यथा, —
“शतजन्मतपः कृत्वा जन्मेदं भारते लभेत् । करोति सफलं जन्म श्रुत्वा हरिकथामृतम् ॥ अर्च्चनं वन्दनं मन्त्रजपः सेवनमेव च । स्मरणं कीर्त्तनं शश्वद्गुणश्रवणमीप्सितम् ॥ निवेदनं स्वस्य दास्यं नवधा भक्तिलक्षणम् । करोति सफलं जन्म कृत्वैतानि च भारते ॥” * ॥
अस्य पुण्यस्थलत्वं कर्म्मभूमित्वं परिमाणञ्च यथा, —
“कर्म्मणां फलभोगश्च सर्व्वेषां सुरसुन्दरि ! । नैव स्वर्गे न पाताले नान्यद्वीपे श्रुतौ श्रुतम् ॥ कृत्वा शुभाशुभं कर्म्म पुण्यक्षेत्रे च भारते । अन्यत्र तत्फलं भुङ्क्ते कर्म्मी कर्म्मनिबन्धनात् ॥ हिमालयादासमुद्रं पुण्यक्षेत्रञ्च भारतम् । श्रेष्ठं सर्व्वस्थलानाञ्च मुनीनाञ्च तपःस्थलम् ॥ लब्ध्वा तत्र जन्म जीवो वञ्चोतो विष्णुमायया । शश्वत् करोति विषयं विहाय सेवनं हरेः ॥ कृत्वा तत्र महत् पुण्यं स्वर्गं गच्छति पुण्यवान् । गृहीत्वा स्वर्गकन्याश्च चिरं स्वर्गे प्रमोदते ॥ स्वर्गमागच्छति नरो विहाय मानवीं तनूम् ॥” इति ब्रह्मवैवर्त्तपुराणे श्रीकृष्णजन्मखण्डे । १ । ५९ । अध्यायौ ॥
शब्दकल्पद्रुमः
भारतः || पुं, (भरतस्य मुनेरयमिति । भरत + अण् ।)
नटः । इति जटाधरः ॥ अग्निः । इति त्रिकाण्डशेषः ॥ (भरतस्य गोत्रापत्य- मिति । भरत + अण् ।)
भरतस्य गोत्रापत्यम् ॥ (यथा, महाभारते । ३ । ११ । ७४ । “तत्राश्रौषमहञ्चैतत् कर्म्म भीमस्य भारत ! ॥”)