संस्कृत-शब्दकोशः

भारती भारद्वाजी

भारद्वाज

वाचस्पत्यम्

भारद्वाज ||‍ पु० भरद्वाजस्य गोत्रापत्यम् अण् । गोत्रप्रवर्त्तके १ मुनिभेदे २ द्रोणाचार्य्ये मेदि० ३ अगस्त्यमुनौ शब्दर० ४ व्याघ्राटविहगे ५ बृहस्पतिपुत्रे च हेमच० ६ वनकार्पास्यां स्त्री ङीप् । पृषो० । भार्द्वाजीत्यप्यत्र । विदा० अञ् ततः अश्वा० फक् । भारजायन तद्गोत्रापत्ये पुंस्त्री० । स्त्रियां ङीप् । भारद्वाजी ६ त० । भारद्वाजीपुत्र तत्पुत्रे स च यजुर्वेदस्य वंशस्थः ऋषिभेदः शत० ब्रा० १४ । ९ । ४ । ३ ।


शब्दकल्पद्रुमः

भारद्वाजं || क्ली अस्थि । इति हेमचन्द्रः । ३ । २८९ ॥


शब्दकल्पद्रुमः

भारद्वाजः || पुं, (भरद्वाजस्य अपत्यं गोत्रापत्य- मिति वा । भरद्वाज + “अनृष्यनान्तर्य्ये विदा- दिभ्योऽञ् ।” ४ । १ । १०४ । इति अञ् ।)
द्रोणाचार्य्यः । (यथा, महाभारते । ७ । ६ । २३ । “ततः प्रयाते सहसा भरद्वाजे महारथे । आर्त्तनादेन घोरेण वसुधा समकम्पत ॥”)
ऋषिभेदः । इति मेदिनी । जे, ३४ ॥ अगस्त्य- मुनिः । इति शब्दरत्नावली ॥ मङ्गलग्रहः । इति ग्रहयज्ञतत्त्वम् ॥ व्याघ्राटपक्षी । बृहस्पति- पुत्त्रः । इति हेमचन्द्रः ॥ (देशभेदः । यथा, “कृकणपर्णाद्भारद्वाजे ।” ४ । २ । १४५ । इति सूत्रे “भारद्वाजशब्दोऽपि देशवचन एव नगोत्रशब्दः ।” इति काशिका ॥ भर- द्वाजवंशीये, त्रि ॥ यथा, महाभारते । १ । १३१ । ३ । “इति सञ्चिन्त्य गाङ्गेयस्तदा भारतसत्तम ! । द्रोणाय वेदविदुषे भारद्वाजाय धीमते । पाण्डवान् कौरवांश्चैव ददौ शिष्यान्नरर्षभ ! ॥”)



Correction: