संस्कृत-शब्दकोशः

भारि भारिट

भारिक

वाचस्पत्यम्

भारिक ||‍ त्रि० भारं वहति भार + ठक् । भारवाहके अमरः


शब्दकल्पद्रुमः

भारिकः || पुं, (भारोऽस्ति वाह्यतयास्य । “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।)
भार- वाहकः । भारी इति ख्यातः । तत्पर्य्यायः । भारवाहः २ । इत्यमरः । २ । १० । १५ ॥ भारहरः ३ भारहारः ४ । इति शब्दरत्ना- वली ॥ (यथा, कथासरित्सागरे । ३७ । ५६ । “तत्र चाग्रागताः केचित् तमूचुः काष्ठ- भारिकाः ॥”)



Correction: