वाचस्पत्यम्
भारिन् || त्रि० भारीऽस्त्यस्य वाह्यत्वेन इनि । भारवाहके एतत्परस्य मासाशब्दस्य ह्रस्वः । मालभारी । “मल्लिका- मालमारिण्यः” काव्याद० ।
शब्दकल्पद्रुमः
भारी || [न्] पुं, (भारोऽस्त्यस्यास्मिन् वेति । भार + इनिः ।)
भारवाहकः । इत्यमरटीकायां रमा- नाथः ॥ (यथा, मनौ । २ । १३८ । “चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । स्रातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥”)
भारयुक्ते, त्रि ॥