संस्कृत-शब्दकोशः

भारिन् भारूप

भारुण्ड

वाचस्पत्यम्

भारुण्ड ||‍ पु० १उत्तरकुरुवर्षस्थे २ खगभेदे तदुपक्रमे “भारुण्डा- नाम शकुनास्तीक्ष्णतुण्डा भयानकाः । तान्निर्हरन्तीह मृतान् दरीषु प्रक्षिपन्ति च” भा० भी० ७ अ० । २ सामभेदे तत्र भारुडेति पाठभेदः । तत्सामद्रष्टरि ३ ऋषिभेदे “भा- रुण्डसामगीताभिरथर्वशिरसोद्गतैः” भा० आ० ६७ अ० । तच्च सामार्चिके १ । २ । २ “इमं स्तोमर्हते” इत्यादिमन्त्रे गेयं साम, मत्कृत तुलादानादिपद्धतौ १०३ पृ० दृश्यम् । “आज्यदोहानि सामानि शान्तिकं भारुडानि च । प- श्चिमे द्वारपालौ तु पठेताम् सामगौ तथा” विधानपा० ।



Correction: