संस्कृत-शब्दकोशः

भार्गभूमि भार्गवन

भार्गव

वाचस्पत्यम्

भार्गव ||‍ पुंस्त्री० भृगोरपत्यम् तद्गोत्रापत्यं वा अण् । १ भृपु- वंश्ये बहुत्वे तु अत्रिभृम्वित्यादिना अणी लुक् । भृगवः तद्गोत्रापत्येषु । २ शुक्राचार्य्ये ३ धन्विनि ४ गजे च पु० मेदि० । तेन प्राक्ता तेनाधीता ज्ञाता वा अण् । ५ वेदपसिद्धे विद्याभेदे ६ षार्वत्यां ७ लक्ष्म्यां ८ दूर्वायां च स्त्री मेदि० ङीप् । प्राच्ये ९ देशभेदे पु० । “ब्रह्मा- त्तराः प्रविजया भार्गवाज्ञेयमल्लकाः” मार्कपु० । १० द्रुपद- नगरस्थे कुम्भकारभेदे पु० भा० आ० १९० अ० । ११ महादेवे पु० भा० द्रो० २०३ अ० ।


शब्दकल्पद्रुमः

भार्गवः || पुं, (भृगोरपत्यम् तद्गोत्रापत्यमिति । भृगु + अण् ।)
परशुरामः । शुक्राचार्य्यः । (यथा, महाभारते । १ । ६६ । ४५ । “तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे । अन्यमुत्पादयामास पुत्त्रं भृगुरनिन्दितम् ॥”)
धन्वी । गजः । इति मेदिनी । वे, ४५ ॥ भारत- वर्षमध्ये प्राच्यदेशान्तर्गतदेशविशेषः । यथा, —
“ब्रह्मोत्तराः प्रविजया भार्गवा ज्ञेयमर्द्दकाः ॥” इति मार्कण्डेयपुराणम् ॥ (कुलालः । यथा, महाभारते । १ । १९२ । १ । “गत्वा तु तां भार्गवकर्म्मशालां पार्थौ पृथां प्राप्य महानुभावौ ॥” “भृगुः स्वघटवृत्तिः जीविकार्थं भृगुणा व्यव- हरतीति भार्गवः कुलालः ।” इति तट्टीकायां नीलकण्ठः ॥ मार्कण्डेयः । यथा, महाभारते । १३ । २२ । १५ । “इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः । पृथिवीकाश्यपश्चाग्निः प्रकृष्टायुश्च भार्गवः ॥” शौनकः । यथा, महाभारते । १ । १८ । ६ । “तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गवः ॥” भृगुवंशीये, त्रि ॥ (यथा, महाभारते । ३ । ९९ । ४१ । “शृणु रामस्य राजेन्द्र ! भार्गवस्य च धीमतः ॥”)



Correction: