शब्दकल्पद्रुमः
भार्गवी || स्त्री (भार्गव + ङीप् ।)
पार्व्वती । (भृगोरपत्यं स्त्री । भृगु + अण् + ङीप् ।)
लक्ष्मीः । (अस्या भृगुसुतात्वमुक्तं यथा, विष्णु- पुराणे । १ । ९ । १४६ । “एतत् ते कथितं ब्रह्मन् ! यन्मां त्वं परि- पृच्छसि । क्षीराब्धौ श्रीयथा जाता पूर्ब्बं भृगुसुता सती ॥”)
दूर्व्वा । इति मेदिनी । वे, ४५ ॥ (यथा, वैद्यक- रत्नमालायाम् । “सहस्रवीर्य्या दूर्व्वा तु मङ्गल्या भार्गवी रुहा ॥”)
नीलदूर्व्वा । इति शब्दरत्नावली ॥ (यथास्याः पर्य्यायः । “नीलदूर्व्वा रुहानन्ता भार्गवी शतपर्व्विका । शष्पं सहस्रवीर्य्या च शतवल्ली च कीर्त्तिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
श्वेतदूर्व्वा । इति राजनिर्घण्टः ॥ (भृगुवंशीय- स्त्रीमात्रे । यथा, महाभारते । १ । ७३ । ३३ । “कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्ग वीम् । हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मण- कन्यया ॥”)