संस्कृत-शब्दकोशः

भार्गायण भार्द्वाजी

भार्गी

वाचस्पत्यम्

भार्गी ||‍ स्त्री भार्गस्येयमण् । (वामनहाटि) वृक्षभेदे राजनि० ।


शब्दकल्पद्रुमः

भार्गी || स्त्री (भृज् + घञ । भर्गोऽस्त्यस्या इति । “ज्योत्स्नादिभ्य उपसंख्यानम् ।” ५ । २ । १०३ । इत्यस्य वार्त्ति० । इति अण् । ततो ङीप् ।)
वृक्षविशेषः । वामनहाटी इति भाषा । तत्- पर्य्यायः । गर्द्दभशाखी २ फञ्जी ३ अङ्गार- वल्लरी ४ ब्राह्मी ५ ब्राह्मण यष्टिः ६ वान्तारिः ७ भृङ्गजा ८ पद्मा ९ यष्टिः १० भारङ्गी ११ वातारिः १२ कामजित् १३ सुरूपा १४ भ्रमरेष्टा १५ शक्रमाता १६ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कासश्वास- शोफव्रणक्रिमिदाहज्जरनाशित्वञ्च । इति राज- निर्घण्टः ॥ अन्यत् ब्राह्मणयष्टिकाशब्दे द्रष्टव्यम् ॥



Correction: