वाचस्पत्यम्
भार्य्याटिक || पु० भार्य्यया आटो गतिः प्रयोजनमस्य ठक् । १ स्त्रीजिते २ हरिणभेदे च मेदि० ।
शब्दकल्पद्रुमः
भार्य्याटिकः || पुं, (अट गतौ + भावे घञ् । भार्य्यया आटो मतिर्भ्रमणं वा अस्त्यस्येति । भार्य्याट + ठन् ।)
स्त्रीजितः । हरिणविशेषः । इति मेदिनी । के, २०५ ॥ (मुनिविशेषः । इति हेमचन्द्रः ॥)