वाचस्पत्यम्
भालदर्शन || न० भाले दृश्यते कर्मणि ल्युट् । १ सिन्दूरे शब्दच० भाले दर्शनं नेत्रमस्य । २ कपाललोचने महादेवे ।
शब्दकल्पद्रुमः
भालदर्शनं || क्ली (भाले ललाटे दर्शनमस्येति ।) सिन्दूरम् । इति शब्दचन्द्रिका ॥