संस्कृत-शब्दकोशः

भाललोचन भालु

भालाङ्क

वाचस्पत्यम्

भालाङ्क ||‍ पु० भालस्येवाङ्को यस्य भाले अङ्को यस्य वा । १ शाक- भेदे २ करपत्रेऽस्त्रे (करात्) ३ रोहितमत्स्ये महालक्षण- विशेष ललाटचिह्नयुक्ते ४ पुरुषभेदे ५ शिवे ६ कच्छपे च मेदि० ।


शब्दकल्पद्रुमः

भालाङ्कः || पुं, (भालस्येव अङ्को यत्र भाले अङ्को यस्येति वा ।)
करपत्रम् । शाकभेदः । रोहित- मत्स्यः । महालक्षणसम्पन्नपुरुषः । कच्छपः । हरः । इति मेदिनी । के, १३३ ॥ (भालस्य अङ्कः ।)
ललाटचिह्नञ्च ॥



Correction: