शब्दकल्पद्रुमः
भावना || स्त्री क्ली, (भू + णिच् + युच् ।)
ध्यानम् । (यथा, गीतायाम् । २ । ६६ । “नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥”)
पर्य्यालोचनम् । अधिवासनम् । इति मेदिनी । ने, १०१ ॥ त्रिविधा भावना यथा, —
“त्रिविधा भावना विप्र ! विश्वमेतन्निबोध मे । ब्रह्माख्या कर्म्मसंज्ञा च तथा चैवोभयात्मिका ॥ ब्रह्मभावात्मिका ह्येका कर्म्मभावात्मिकापरा । उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ सनन्दनादयो ब्रह्मभावभावनया युताः । कर्म्मभावनया चान्ये देवाद्याः स्थावराश्चराः ॥ हिरण्यगर्भादिषु च ब्रह्मकर्म्मात्मिका द्विधा । बोधाधिकारयुक्तेषु विद्यते भावभावना ॥” इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥ त्रिविधभावनाश्रयजीवात्मकत्वात्तदुपचारेण त्रिविधा भावनेत्युच्यते । एतद्धि हरेः स्थूलं रूपम् । अतः पररूपप्राप्त्युपायत्वात् तत्र प्रथमं मनः मन्धार्य्यमिति भावः । भावना नाम ज्ञानविशेषजा वासना । तां त्रिविधामपि संज्ञामादिशति ब्रह्माख्येति । तामेव विषय- त्रैविध्येन विविनक्ति ब्रह्मभावनात्मिकेति । भाव- भावना भावो वस्तु तद्बिषया भावना त्रिविधा । तत्र वयं ब्रह्मैव भावयामः । वयं कर्म्मैव कुर्म्मः । वयन्तूभयमिदमनुसन्दध्म इत्येवं त्रिविधा भावना । भावनायुक्तान् जीवानुदाहरति सन- न्दनादय इति द्वाभ्याम् । इति तट्टीका ॥