संस्कृत-शब्दकोशः

भावना भावयू

भावबोधक

वाचस्पत्यम्

भावबोधक ||‍ पु० भावस्य रत्यादेर्वोधकः अनुमापकः । रत्याद्यनु- मापके १ भ्रुभङ्गादिदेहचेष्टाविशेषे २ मुखरागादौ च अमरः


शब्दकल्पद्रुमः

भावबोधकः || पुं, (भावस्य रत्यादेर्वोधकः अनु- भावकः ।)
अनुभावः । इत्यमरः । २ । ७ । २१ ॥ भावस्य रत्यादेर्बोधकः सूचको गुणक्रियादिरनुभावः । अनुभाव्यते प्रतीतियोग्यतां नीयते रत्यादिरने- नेति अनुभावः घञ् । तत्र रतेरनुभावाः लोचनचातुर्य्यभ्रूक्षेपादयः । हासस्य च कपोला- कुञ्चनानासोत्फुल्लनादयोऽनुभावा एवं अन्यत्रा- नुमन्तव्यम् । किंवा भावाननुभावयतीति अन् अनुभावो मुखरागादिः । इति तट्टीकायां भरतः ॥



Correction: