संस्कृत-शब्दकोशः

भावित्र भाविन्

भाविनी

शब्दकल्पद्रुमः

भाविनी || स्त्री स्त्रीविशेषः । इत्यमरः ॥ भावः शृङ्गारचेष्टाविशेषो विद्यतेऽस्याः भाविनी । इति तट्टीकायां भरतः ॥ (यथा, हरिवंशे । ११७ । ३६ । “सा हि तस्याभवज्ज्येष्ठा पत्नी कृष्णस्य भाविनी । पतिव्रता गुणोपेता रूपशीलगुणान्विता ॥”)
स्त्रीमात्रम् । इति राजनिर्घण्टः ॥ (स्कन्दस्य मातृगणानामन्पतमा । यथा, महाभारते । ९ । ४६ । ११ । “शतघण्टा शतानन्दा भगनन्दा च भाविनी । वपुष्मती चन्द्रशीता भद्रकाली च भारत ! ॥”)
वर्त्तमानप्रागभावप्रतियोगिनी च ॥



Correction: