संस्कृत-शब्दकोशः

भाविनी भावुक

भाविन्

वाचस्पत्यम्

भाविन् ||‍ त्रि० भू—गम्या० भविष्यति णिनि । १ भविष्यत्पदार्थे “भाविनि भूतवदुपचारः” न्यायः । स्त्रियां ङीप् । भावो रत्यादिभावः सात्त्विकभावो वाऽस्त्यस्य एकाक्षरकृदन्तत्वे- ऽपि बाहुल्यार्थे इनि ङीप् । २ बहुभावाग्वितायां स्त्रियाम् भरतः ३ स्त्रीमात्रे राजनि० । ४ गन्धर्वकन्याभेदे स्त्री मार्कपु०१२८ तत्र भामिनीति पाठान्तरम् ।


शब्दकल्पद्रुमः

भावी || [न्] त्रि, (भविष्यतीति । भू + “भुवश्च ।” उणा० ४ । ८ । इति इनिः । स च णिद्- भवति ।)
भविष्यत्कालादिः । वर्त्तमानप्राग- भावप्रतियोग्युत्पत्तिकः । यथा, —
“वीरप्रतिपदा नाम तव भावी महोत्सवः ॥” इति कार्त्तिकशुक्लप्रतिपदमधिकृत्य बलिं प्रति भगवद्वाक्यम् । इति तिथ्यादितत्त्वम् ॥



Correction: