संस्कृत-शब्दकोशः

भास्करप्रिय भास्करावर्त

भास्करलवण

वाचस्पत्यम्

भास्करलवण ||‍ न० भास्करनिर्मिते लवणभेदे “पिप्पली पिप्पलीमूलं धन्याककृष्णजीरकम् । सैन्धवञ्च विडञ्चैव पत्रं तालीशकेसरम् । एषां द्विपलिकान् भागान् पञ्चसौर्चलस्य च । मरिचाजाजिशुण्ठीनामे- कैकस्य पलं पलम् । त्वगेले चार्द्धभागे च सामुद्रात् कु- डवद्वयम् । दाडिमात् कुडवञ्चैव द्वे पले चाम्लवेत- सात् । एतच्चूर्णीकृतं श्लक्ष्णं गन्धाद्यममृतोपमम् । लवणं भास्करं नाम भास्करेण विनिर्मितम् । जगतस्तु हितार्थाय वातश्लेष्मामयापहम् । वातगुल्मं निहन्त्येत- द्वातशूलानि यानि च । तक्रमस्तुसुरासीधुशुक्तकाञ्जि- कयोजितम् । जाङ्गलानान्तु मांसेन रसेषु विविधेषु च । मन्दाग्नेरश्नतः शक्तो भवेदाश्वेव पावकः । अर्शांसि ग्र- हणीदोषकुष्ठामयभगन्दरान् । हृद्रोगमामदोषांश्च वि- विधानुदरस्थितान् । प्लीहानमश्मरीञ्चैव श्वासकासोदर- क्रिमीन् । विशेषतः शर्करादीन् रोगान्नानाविधांस्तथा । पाण्डुरोगांश्च विविधान् शमयत्यशनिर्यथा” चक्रद० ।



Correction: